भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 227, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 227

२२० | सटीके कामसूत्रे | [४ अधिकरणे,

न दद्यात्प्रसरं स्त्रीणां सपत्न्याः कारणे क्व चित् । तथोपालभमानां च दोषैस्तामेव योजयेत् ॥ ८७ ॥

प्रसरं न दद्यात्कलहपरिहारार्थं, सपत्न्याः कारण इति । सापत्न्यसम्बन्धिनि सत्यपि निमित्ते, तथा तेनैव प्रकारेण निष्प्रसरत्तयोपालभमानां युक्तमेवोपेक्षितमिति, दोषैस्तामेव योजयेत्तवैव दोषो न तस्या इति ॥ ८७ ॥

अन्यां रहसि विस्रम्भैरन्यां प्रत्यक्षपूजनैः । बहुमानैस्तथा चान्यामित्येवं रञ्जयेत्स्त्रियः ॥ ८८ ॥

रहसि विस्रम्भैर्विश्वासैर्या लज्जावती, प्रत्यक्षपूजनर्या सपत्नीषु भक्तिमिच्छति, बहुमानैर्या मनस्विनी ॥ ८८ ॥

उद्यानगमनैर्भोगैर्दानैस्तज्जातिपूजनैः । रहस्यैः प्रीतियोगैश्चेत्येकैकामबुरञ्जयेत् ॥ ८९ ॥

उद्यानगमनैर्या तच्छीला, भोगैर्या परिभोगलालसा, तज्जातिपूजनैर्या ज्ञातिषु कर्तव्यबुद्धिः, रहस्यै रहसि भवैः, प्रीतियोगैः प्रीत्यर्थैर्योर्गैः कार्या रतिक्रिया ॥ ८९ ॥

अधिकरणार्थानुष्ठाने फलमाह—

युवतिश्च जितक्रोधा यथाशास्त्रप्रवर्तिनी । करोति वश्यं भर्तारं सपत्नीश्चाधितिष्ठति ॥ ७० ॥

इति श्रीवात्स्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थेऽधिकरणे सपत्नीषु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तं दुर्भगावृत्तमान्तःपुरिकं पुरुषस्य बह्वीषु प्रतिपत्तिर्द्वितीयोऽध्यायः ।

जितक्रोधेति । शास्त्राथानुष्ठानकरणाद्, यथाशास्त्रप्रवर्तिनीति । यद्यस्याः शास्त्रमेकचारिणीज्यष्ठाऽऽदिवृत्तं, सपत्नीश्चाधितिष्ठतीति । सपत्नीनामुपरि स्थितिं लभत इति, 'अधिशीङ्स्थाऽऽसां कर्म'इति कर्मसंज्ञा ॥ ७० ॥

इति पुरुषस्य बह्वीषु प्रतिपत्तिरेकोनचत्वारिंशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां भार्याऽधिकारिके चतुर्थेऽधिकरणे सपत्नीषु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तमान्तःपुरिकं पुरुषस्य बह्वीषु प्रतिपत्तिर्द्वितीयोऽध्यायः ।


समाप्तं चेदं भार्याऽधिकारिकं चतुर्थमधिकरणम् ।