कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 226, कुल 353 में से
संदर्भ में पढ़ें३ अध्याये ] बह्वीषु प्रतिपत्तिप्रकरणम् । २१६
तम्, अनुलेपनं सम्बन्धित्वख्यापनार्थं, वासकं क्रमप्राप्तमतीतं वा, ऋतुं च प्रत्युपस्थितम् ॥ ८० ॥
तत्र राजा यद् गृह्णीयात्तस्या वासकमाज्ञापयेत् ॥ ८१ ॥
तत्रेति। निवेदिते, यद् गृह्णीयादिति। यदीयमाङ्गुलीयकम् ॥ ८१ ॥
उत्सवेषु च सर्वांसामनुरूपेण पूजाऽऽपानकं च सङ्गीतदर्शनेषु च ॥ ८२ ॥
अनुरूपेण पूजेति। कुलवयोऽनुरूपा, आपानकं च ताभिः सह ॥ ८२ ॥
अन्तःपुरचारिणीनां बहिरनिष्क्रमो बाह्यानां चाप्रवेशोऽन्यत्र विदितशौचाभ्यः ॥ ८३ ॥
अप्रवेश इति। संगीतकव्यग्रेषु तद्वेशधारिणां नागरिकाणामपि प्रवेशः संभाव्यते, विदितशौचाभ्य इति। ता ह्युपधाशुद्धत्वान्नान्यत्प्रयोजयन्ति ॥ ८३ ॥
अपरिक्लिष्टश्च कर्मयोगः ॥ ८४ ॥ इत्यान्तःपुरिकम् ।
अपरिक्लिष्टश्च कर्मयोग इति। रतोपचारेऽकदर्थितः स्यात्, कदर्थिते च तस्मिन्नकार्यमपि कुर्युः ॥ ८४ ॥
इत्यान्तःपुरिकमष्टत्रिंशं प्रकरणम् ॥
यथा राज्ञो बह्व्यः स्त्रियस्तथा जानपदस्यापि भवन्तीति जानपदस्य बह्वीषु प्रतिपत्तिरुच्यते,
तत्र सामान्यमाह—
भवन्ति चात्र श्लोकाः—
पुरुषस्तु बहून्दारान्समाहृत्य समो भवेत् । न चावज्ञां चरेदासु व्यलीकान् सहेत च ॥ ८५ ॥
पुरुषस्त्विति। समो भवेदिति। नैकत्र स्नेहेन वर्तेत, न चावज्ञां चरेदिति। गुणरूपरहितास्वपि तिरस्कारं न कुर्यात्, व्यलीकानपराधान्न सहेत, अन्यथा क्षान्तेषु पुनः पुनर्विशेषतः कुर्युः ॥ ८५ ॥
एकस्यां या रतिक्रीडा वैकृतं वा शरीरजम् । विस्रम्भाद्वाऽप्युपालम्भस्तमन्यासु न कीर्तयेत् ॥ ८६ ॥
एकस्यामिति। या चित्ररतेनान्येन वा क्रीडा रतानुगता, अन्या वा, “कृतं गुह्यगतं, विस्रम्भाद्रोपालम्भयुक्तं वासकसंज्ञामनुबन्धयितुम्, अन्यासु न कीर्तयेदिति। स्त्रीणां वैराग्यहेतुत्वात् ॥ ८६ ॥