भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 237, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 237

२३० सटीके कामसूत्र [ ५ अधिकरणे,

शरीरसंस्कार रहितः, तस्य भार्या कश्मलत्वाद्विमुखी भवति, चोक्षः = जातिविशेषः, तद्भार्या वेश्याप्राया, क्लीबः = नपुंसकः, दीर्घसूत्रः, कार्यमवमृश्य तदा नारभते, कापुरुषः = पौरुषहीनः, द्वयोरपि भार्या परस्यैव, कुब्जवामनयोर्विरूपयोरप्युपादानं वैरूप्यभेदप्रदर्शनार्थं, द्वयोरपि भार्या खण्डितशीला, मणिकारः = मणीनां संस्कर्ता, तद्भार्या सदैव दृष्टचारिणी खण्डितशीला, ग्राम्यभार्या नागरकस्यायत्नसाध्या, ऋजुत्वाद्, दुर्गन्धिः, शरीरे यस्य दुष्टो गन्धः स उद्वेगकरः, रोगी यो दीर्घरोगयुक्तः, वृद्धः = व्यवायाक्षमः, एषां भार्या व्यभिचारिण्यः ॥ ५२ ॥

प्रकरणार्थमुपसंहरन्नाह—

श्लोकावत्र भवतः—

इच्छा स्वभावतो जाता क्रियया परिवृंहिता ।
बुद्धया संशोधितोद्वेगा स्थिरा स्यादनपायिनी ॥ ५३ ॥

इच्छेति। स्वभावतो यं कं चिदुज्ज्वलं दृष्ट्वा कामयत इति, क्रिययेति। परिचयाभियोगलक्षणया, परिवृंहिता वर्धिता, बुद्धयेति । प्रज्ञया, संशोधितोद्वेगेति । सम्प्रयोगोपायमपश्यन्ती, उद्वेगयुक्ताऽपि स्यात्, तदुपायदर्शनेनापनीतोद्वेगा सा चैवंविधा स्थिरा स्यादनपायिनीत्वात् ॥ ५३ ॥

सिद्धतामात्मनो ज्ञात्वा लिङ्गान्युन्नीय योषिताम् ।
व्यावृत्तिकारणोच्छेदी नरो योषित्सु सिध्यति ॥ ५४ ॥

इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे स्त्रीपुरुषशीलावस्थापनं व्यावर्तनकारणानि स्त्रीषु सिद्धाः पुरुषा अयत्नसाध्या योषितः प्रथमोऽध्यायः ।

सिद्धतामिति। ज्ञात्वा, किमहमस्याः सिद्ध इति, लिङ्गानि = इच्छासूचकानि, इङ्गिताकारादीनीत्यर्थः, उन्नीयेति। ज्ञात्वा, व्यावृत्तिकारणोच्छेदी, रागवर्धनादिभिः, योषित्सु सिद्ध्यत्यभियुञ्जानः फलं लभत इत्यर्थः ॥ ५४ ॥

इत्ययत्नसाध्या योषितस्त्रयश्चत्वारिंशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरणे स्त्रीपुरुषशीलावस्थापनं, व्यावर्तनकारणानि, स्त्रीषु सिद्धाः पुरुषाः, अयत्नसाध्या योषितः प्रथमोऽध्यायः ।