भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 236, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 236

१ अध्याये ] अयत्नसाध्ययोषित्प्रकरणम् । २२९

देशावस्थायिनीति । पुरुषदिदृक्षया द्वारदेशेऽवस्थातुं शीलं यस्याः सा चपलाऽभियोगमात्रसाध्या, प्रासादमारुह्य राजमार्गावलोकिनी, राजमार्गे हि पुरुषाणां संनिधानात्, सतरुणेति । सतरुणाः पुमांसो यत्रेति प्रातिवेश्यगृहे, तत्रत्याभिः स्त्रीभिर्गोष्ठीयोजिनी सा चापलं द्योतयति, सततप्रेक्षिणी चेति । या सततं प्रेक्षते सा तस्य साध्या, प्रेक्षितेति । नायकेन, पार्श्वविलोकिनी, या पार्श्वमवलोकयति किमन्येन ? दृष्टाऽस्मीति, साऽपि चापलं कथयति, निष्कारणमिति । जाड्यदौःशील्यादिकं विना, सपत्न्याऽधिविन्ना, युक्तामर्षात्परपुरुषमिच्छति, भर्तुर्द्वेषिणी, गुणवन्तमपि भर्तारमनिच्छन्ती, विद्धिष्टा चेति । भर्ता यां द्वेष्टि, द्वे अपि चञ्चले, परिहारहीना, निष्परिहारा परिहार्येषु सा स्वभावत एव व्यभिचारिणी, निरपत्या, भर्तुरपत्यमपश्यन्ती परानुपैति, ज्ञातिकुलनित्या, ज्ञातिगृहे सदाऽवस्थिता स्वातन्त्र्याद्भिन्नवृत्तिः, विपन्नापत्या, भर्तुर्यदपत्यं तत्तद्विपद्यत इति परपुरुषापेक्षाऽपत्याभावाद्, गोष्ठीयोजिनी, स्वगृहे सखीगृहे वा चापल्यं सूचयति, प्रीतियोजिनी, येन सह प्रीतिं योजयति तस्य साध्या, कुशीलवभार्या, नटनर्तकादीनां भार्या वेश्याप्रायाः, मृतपतिका बालेति । बाला च या विधवा सा तारुण्ये निषीदन्ती शीलं खण्डयति, दरिद्रा, बहूपभोगान्वितं दातारमभिगच्छति, ज्येष्ठभार्या बहुदेवरिका, प्रायशो देवरैरेव व्युत्पादिता, बहुमानिनी न्यूनभर्तृकेति । आत्मनि बहुमानो यस्या न्यूनश्च भर्ता सा न तत्र रमते, कौशलाभिमानिनी, कलानां परिज्ञानाभिमानो यस्याः सा, भर्तुर्मौर्येण, मूर्खत्वेनोद्विग्ना, नियतं तत्कुशलमन्यमिच्छतीति, अविशेषज्ञतया भर्तुरुद्विग्ना विशेषज्ञानलोभेन सुखमलब्ध्वा न तत्र रमते, कन्याकाल इति । कन्याऽवस्थायां यत्नान्नायकेन वृता कथं चिद् दैवयोगात्तेन न लब्धा सत्यन्येनोढेत्यभियुक्ता तदानीं यदा तस्येच्छा सा तस्य साध्या पूर्वानुरागात्, समानबुद्धिरिति । नायकेन तुल्या बुद्ध्यादयो यस्याः सा तस्य साध्या, तत्र बुद्धिर्बोधेषु, शीलं = स्वभावः, मेधा = विद्याकलासु ग्रहणशक्तिः, प्रतिपत्तिः = अनुष्ठानं, सात्म्यं = देशसात्म्यं कृतिसात्म्यं च, प्रकृत्येति । स्वभावेन यं प्रति पक्षपातो यस्याः सा तस्य साध्या, अनपराधइति । दोषं विना भर्त्रा त्ववमानिता परिभूता न तत्र सज्जतेऽन्यमिच्छति, तुल्यरूपामिश्राधः कृतेति । समानपत्नीभिर्न्यक्कृता विरागादन्यमिच्छति, प्रोषितपतिका, ब्रह्मचर्येण भग्ना कथमप्यन्येनेच्छेद्व, ईर्ष्याल्विति । यो निष्कारणमीर्ष्यति तस्य भार्या विटैश्चिरमपहृतैव, पूतिः =

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित) · पृष्ठ 236, कुल 353 में से · BharatKosha