भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 243, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 243

२३६ सटीक कामसूत्रे [ ५ अधिकरणे,

कर्तरि षष्ठी, केशहस्तः = केशकलापः, तत्रत्यपुष्पयाचनं, सिद्धिकरमेतदिति ॥ २१ ॥

तत्र महार्हगन्धं स्पृहणीयं स्वनखदशनपदचिह्नितं साकारं दद्यात् ॥ २२ ॥

स्वयं तु ददन्नायको यन्महार्हगन्धं स्पृहणीयं लोकस्य, तदन्यहस्तेन यदा दद्यात्तदा स्वनखदशनपदचिह्नितं, यदा स्वहस्तेन तदा साकारं, क्रियाविशेषणमेतद्, एवं प्रकारद्वयेऽपि भावः सूचितो भवति ॥ २२ ॥

अधिकैरधिकैश्चाभियोगैः साध्वसविच्छेदनम् ॥ २३ ॥

अधिकैरधिकैः पूर्वपूर्वेभ्यः, साध्वसविच्छेदनम्, प्रायेण परयोषित्परपुरुषेषु ससाध्वसा भवति ॥ २३ ॥

आभ्यन्तरानधिकृत्याह--

क्रमेण च विविक्तदेशे गमनमालिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दानान्ते द्रव्याणां परिवर्तनं गुह्यदेशाभिमर्शनं चेत्यभियोगाः ॥ २४ ॥

क्रमेण चेति । यदैकान्तेन गतसाध्वसा, तदा विविक्तदेशगमनं यस्मिन्प्रच्छन्ने देशे तिष्ठति, तत्र चालिङ्गनादयः प्रयोक्तव्याः, गुह्यदेशाभिमर्शनं = कक्षोरुमूलजघने विमर्दनम् , उत्क्षिप्तकेन ॥ २४ ॥

अभियोगस्याविषयमाह-

यत्र चैकाभियुक्ता न तत्रापरामभियुञ्जीत, तत्र या वृद्धाऽनुभूतविषया प्रियोपग्रहैश्च तामुपगृह्णीयात् ॥ २५ ॥

यत्र चेति । गृहे, परामिति । द्वितीयां नाभियुञ्जीत, परस्परकलहाद् विगोपनं स्याद्, यत्र वा गृहे वृद्धा स्त्री, अनुभूतविषया प्रवृत्तपरपुरुषसंप्रयुक्तत्वाद्, न तत्र स्त्रियमभियुञ्जीतेत्येव, प्रियोपग्रहैश्चेति । प्रियं यदा स्वसुखकारणं तदैवोपग्रहः, उपगृह्यतेऽनेनेति, उपगृह्य स्वीकृत्योपन्यस्यात् ॥ २५ ॥

श्लोकावत्र भवतः-

अन्यत्र दृष्टसंचारस्तद्भर्ता यत्र नायकः ।
न तत्र योषितं कां चित्सुप्रापामपि लङ्घयेत् ॥ २६ ॥

यत्रेति । यस्मिन्गृहे नायिकाया भर्ता, अन्यस्यां योषिति दृष्टसंचारो दृष्टाभिगमो न तत्र गृहे, सुप्रापामपि = सुलभामपि, लङ्घयेदधिगच्छेदित्यर्थः ॥ २६ ॥