कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 263, कुल 353 में से
संदर्भ में पढ़ें२५६ सटीक कामसूत्रे [५ अधिकरणे,
ताभिः सह विष्टिकर्मसु कोष्ठागारप्रवेशे द्रव्याणां निष्क्रमण- प्रवेशनयोर्भवनप्रतिसंस्कारे क्षेत्रकर्मणि कर्पासोर्णाऽतसीशणवल्क- लादाने सूत्रप्रतिग्रहे द्रव्याणां क्रयविक्रयविनिमयेषु तेषु तेषु च कर्मसु संप्रयोगः ॥ ६ ॥
ताभिरिति। चर्षणीभिः सह संप्रयोग इति, वक्ष्यमाणेन सम्बन्धः, अत्रोपायमाह—विष्टिकर्मस्विति। भक्तमात्रेण यानि पेषणकुट्टनरन्धनादीनि कार्याणि तानि विष्टिकर्माणि, कोष्ठागारप्रवेशे तत्रत्यं कर्म कर्तुं-प्रविष्टाभिः, द्रव्याणां धान्यादीनां कोष्ठागारात्निष्क्रमणे तत्र च प्रवेशे तत्र कर्म कर्तुं प्रविष्टाभिः, क्रियमाणे भवनप्रतिसंस्कारे गृहमण्डने क्षेत्रकर्मणि बीजानां रक्षणोत्पादनादौ, कर्पासस्योर्णाया अतसीशणवल्कलस्य च भाण्डागारात्सूत्रकर्तनाय दाने, सूत्रस्य च कर्तितस्य प्रतिग्रहे स्वीकारे कर्तनिकाभिः, द्रव्याणामिति। धान्यादीनां, क्रयविक्रयविनिमयेष्विति। क्रेतुं विक्रेतुं वा प्रविष्टाभिः, तेषु तेषु चेति। राजकुलप्रवेशहेतुषु ॥ ६ ॥
तथा व्रजयोषिद्भिः सह गवाध्यक्षस्य ॥ ७ ॥
गोपीभिर्गवाध्यक्षस्य दधिमथनादिकर्मसु ॥ ७ ॥
विधवाऽनाथाप्रव्रजिताभिः सह सूत्राध्यक्षस्य ॥ ८ ॥
स ह्यधिष्ठाय राजकीयसूत्राणि विधवाऽऽदिभिः कर्तनिकाभिः कर्तयति ॥ ८ ॥
मर्मज्ञत्वाद्रात्रावटने चाटन्तीभिर्नागरस्य ॥ ९ ॥
नगरे नियुक्तस्य दाण्डपाशिकस्य स्त्रीमर्मज्ञत्वाद्रात्रावटने चोदिताभिः ॥ ९ ॥
क्रयविक्रये पण्याध्यक्षस्य ॥ १० ॥
राजकीयपण्यानि क्रेतुं विक्रेतुं च नियुक्तस्य क्रेतृविक्रेतृस्त्रीभिः, संप्रयोग इति सर्वत्र योज्यम् ॥ १० ॥
मुख्यानधिकृत्य प्रच्छन्नानाह--
अष्टमीचन्द्रकौमुदीसुवसन्तकादिषु पत्तननगरखर्वटयोषितामीश्वरभवने सहान्तःपुरिकाभिः प्रायेण क्रीडा ॥ ११ ॥
अष्टमीति। कौमुदी कोजागरः, नगरखर्वटौ व्याख्यातौ, पत्तनादिकमुपलक्षणार्थं द्रोणमुखस्य, ईश्वरभवन इति। यस्य नगरादि भुज्यते तस्य भवने, आन्तःपुरिकाः = अन्तःपुरस्त्रियः ॥ ११ ॥