कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 264, कुल 353 में से
संदर्भ में पढ़ें५ अध्याये ] ईश्वरकामितप्रकरणम्। २५७
तत्र चापानकान्ते नगरस्त्रियो यथापरिचयमन्तःपुरिकाणां- पृथक्पृथग्भोगावासकान्प्रविश्य कथाभिरासित्वा पूजिताः प्रपीता- श्चोपप्रदोषं निष्क्राम्येयुः ॥ १२ ॥
तत्रेति। क्रीडायाम्, आपानकान्त इति। आन्तःपुरिकाभिः सर्वाभिः- सह पेयं पीत्वा, तदन्ते विशेषविधिमाह—नगरस्त्रिय इति। अत्रापि नगरखर्वटद्रोणमुखस्त्रियश्च, भोगावासकानिति। परिभोगप्रदेशान्, कथाभिरासित्वेति। आन्तःपुरिकाभिः सह कथाभिः स्थित्वा, पूजिता- आन्तःपुरिकाभिः, प्रपीता इति। प्रपीतमासां विद्यत इति मत्वर्थेऽकारः, उपप्रदोषं=प्रदोषसमीपे, निष्क्राम्येयुर्दिनं राजभवनेऽतिवाह्य ॥ १२ ॥
तत्र प्रणिहिता राजदासी प्रयोज्यायाः पूर्वंसंसृष्टा तां तत्र संभाषेत ॥ १३ ॥
तत्रेति। अष्टमीचन्द्रादिषु, प्रणिहिता राज्ञा प्रयुक्ता, प्रयोज्याया इति। यामभिगन्तुमिच्छेत्, पूर्वसंसृष्टेति। पूर्वमेव या गृहं यात्वा संसर्गं कृत- वती, तामिति। प्रयोज्यां राजभवने प्रविष्टां, भाषेत कुशलपूर्वकम् ॥ १३॥
रामणीयकदर्शने च योजयेत् ॥ १४ ॥
रामणीयकदर्शने च योजयेत्, चित्तहरणार्थम् ॥ १४ ॥
प्रागेव स्वभवनस्थां ब्रूयात् ॥ १५ ॥
प्रागेवेति। राजभवनप्रवेशात्, स्वभवनस्थां ब्रूयादौत्सुक्यवार- णार्थम् ॥ १५ ॥
अमुष्यां क्रीडायां तव राजभवनस्थानानि रामणीयक़ानि दर्शयिष्यामीति काले च योजयेत् ॥ १६ ॥
अमुष्यामिति। येयमेष्यति, काले प्रज्ञाते च योजयेत् ॥ १६ ॥ रामणीयकशेचनान्याह—
बहिः प्रबाळकुट्टिमं ते दर्शयिष्यामि मणिभूमिकां वृक्षवाटिकां मृद्वीकामण्डपं समुद्रगृहप्रासादान्गूढभित्तिसंचारांश्चित्रकर्माणि क्री- डामृगान्यन्त्राणि शकुनान्व्याघ्रसिंहपञ्जरादीनि च यानि पुरस्ता- दर्णितानि स्युः ॥ १७ ॥
बहिरिति। प्रबालकुट्टिमं मणिभूमिकां स्फटिकाद्याकारां कृतकु- ट्टिमां भूमिं, वृक्षवाटिकां=पुष्पफलसमृद्धां, मृद्वीकामण्डपं=द्राक्षाम- ण्डपं, समुद्रगृहप्रासादानिति। धारागृहान् प्रासादांश्च, गूढभित्तिसञ्चा- ३३ का० सू०