भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 265, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 265

२५८ सटीके कामसूत्रे [ ५ अधिकरणे

रानिति । गूढं भित्तिमध्यगतत्वाद् जलसञ्चारो येषु समुद्रगृहेषु, प्रासा- देष्वपि निष्कासनप्रवेशनलक्षणसञ्चारानिति योज्यं, यन्त्राणि सजी- वानि निर्जीवानि घटितान्यन्यानि च यानि कौतुकानि, क्रीडार्थी ये मृगाः, शकुनकांत्सादीन् , व्याघ्रपञ्जरान्व्याघ्राधिष्ठितान् , कस्याश्चि- देव क चित्कौतुकमुत्पद्यत इत्यनेकोपदर्शनम् ॥ १७ ॥

एकान्ते च तद्गतमीश्वरानुरागं श्रावयेत् ॥ १८ ॥

एकान्त इति । ईश्वरः कृतसङ्केतस्तिष्ठति, तद्गतमिति । त्वय्यनुर- क्त ईश्वर इति ॥ १८ ॥

संप्रयोगे चातुर्यं चाभिवर्णयेत् ॥ १९ ॥

संप्रयोगेऽपि स्वेश्वरेण सत्यायतिं प्रभावं वर्णयेद्, येनापरिभूता वत्स्यसि ॥ १९ ॥

अमन्त्रश्रावं च प्रतिपन्नां योजयेत् ॥ २० ॥

अमन्त्रश्रावं च वर्णयेद् , आवाभ्यामन्यो न कश्चिज्जानातीति, प्रति- पन्नां संप्रयोगं, योजयेदीश्वरेण ॥ २० ॥

अप्रतिपद्यमानायां विधिमाह—

अप्रतिपद्यमानां तु स्वयमेवेश्वर आगत्योपचारैः सान्त्वितां रञ्जयित्वा संभूय च सानुरागं विसृजेत् ॥ २१ ॥

अप्रतिपद्यमानां त्विति । उपचारैरिति । स्रगादिभिः पानादिभिश्च स्फीतैः सान्त्वितामभिमुखीकृताम्, उपचारैः स्त्रियो ह्रियन्त इत्यतिप्र- तीतमेतद् , रञ्जयित्वा; तदनुकूलेन रतेन, सम्भूय चेति । दास्या नगर स्त्रीभिः संयोज्य विसृजेत् , सानुरागमिति क्रियाविशेषणं, यथा जानाति मय्यनुरक्त ईश्वर इति ॥ २१ ॥

प्रयोज्यायाश्च पत्युरनुग्रहोचितस्य दारान्नित्यमन्तःपुरमौ- चित्यात्प्रवेशयेत् , तत्र प्रणिहिता राजदासीति समानं पूर्वेण ॥२२॥

अनुग्रहोचितस्येति । ईश्वरस्य यः प्रसादवित्तकः, स च प्रयोज्यायाः- पतिः तस्य दाराः, नित्यमिति । प्रत्यहमन्तःपुरं प्रविशन्ति, औचित्या- दिति । अनुग्रहोचितत्वादेव प्रवेशोऽपि तस्या उचित एवेति, तत्रेति । प्रविष्टायां प्रयोज्यायां, प्रणिहिता राजदासीत्यनेन पूर्वोक्तेन समानम्, प्रयोगद्वयेऽप्यत्र प्रयोज्यानुप्रवेशस्य सुकरत्वाद्, दास्येव प्रयुक्ता ॥ २२ ॥

आन्तः पुरिका वा प्रयोज्या सह स्वचेटिकासंप्रेषणेन प्रीतिं- कुर्यात् , प्रसूतप्रीतिं च सापदेशं दर्शने नियोजयेत् , प्रविष्टां पूजितां पीतवतीं प्रणिहिता राजदासीति समानं पूर्वेण ॥ २३ ॥