भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 266, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 266

५ अध्याये ] ईश्वरकामितप्रकरणम् । २५९

आन्तःपुरिका चेति । या का चिदीश्वरप्रयुक्ता चेटिकासंप्रेषणेन प्रीतिं कुर्यादात्मनो विश्वासासंभवात्, प्रसृतप्रीतिं च प्रयोज्यां सापदेशं किंचित्कार्यमपदिश्य; तयैव चेट्या दर्शनेऽपि नियोजयेद्, यथा मां द्रष्टुमागच्छेदिति ॥ २३ ॥

यस्मिन्वा विज्ञाने प्रयोज्या विख्याता स्यात्तद्दर्शनार्थमान्तःपुरिका सोपचारं तामाह्वयेत्, प्रविष्टा प्रणिहिता राजदासीति समानं पूर्वेण ॥ २४ ॥

यस्मिन्वेति । गीततन्त्रीवाद्यादिविज्ञाने, विख्यातां=प्रवीणां, सोपचारमिति । वस्त्रादिदानपूर्वकमाह्वयेद्, अत्र च प्रवेशस्यासंभवाद् आन्तःपुरिका द्वितीया प्रयुक्ता ॥ २४ ॥

उद्भूतानर्थस्य भीतस्य वा भार्या भिक्षुकी ब्रूयादसावान्तःपुरिका राजनि सिद्धा गृहीतवाक्या मम वचनं श‍ृणोति, स्वभावतश्च कृपाशीला तामनेनोपायेनाधिगमिष्याम्यहमेव ते प्रवेशं कारयिष्यामि, सा च ते भर्तुर्महान्तमनर्थं निवर्तयिष्यतीति प्रतिपन्नां द्विखिरिति प्रवेशयेद्, आन्तःपुरिका चास्या अभयं दद्यादभयश्रवणाच्च संप्रहृष्टां प्रणिहिता राजदासीति समानं पूर्वेण ॥ २५ ॥

उद्भूतानर्थस्येति । अर्थप्रतिघाति यत्कार्यं तदुत्पन्नं यस्य, भीतस्य चेति । यो राजकुलाद्भीतस्तस्य जायां भिक्षुकी राजप्रणिहिता ब्रूयाद्, अस्मिन्प्रयोगे तृतीयाऽपरा प्रयुक्ता, साऽप्येवंविधं कार्यं बुद्ध्वा; प्रयोज्यामान्तःपुरिकायां योजयति, राजनि सिद्धा प्रसादवित्तिका, गृहीतवाक्येति । सा यदाह तद्राजा करोति, मम वचनं शृणोतीत्यात्मनो गृहीतवाक्यतामाह-स्वभावतः कृपाशीलेति । उत्कोचाभावं दर्शयति, तामनेनेति । तदानीं बुद्धिविकल्पितेनोपायेन, कथं मम ? प्रवेश इति चेदाह—अहमेवेति । अनर्थमित्युपलक्षणार्थम्, भयं च निवर्तयिष्यति, द्विखिरिति । प्रवेशयेत्पश्चाज्जातपरिचया स्वयमेव प्रवेक्ष्यति, अभयमस्यै दद्याद्, अभयं निवेदितवत्यै संप्रहृष्टामनुद्विग्नां सम्भाषेत ॥ २५ ॥

एतया वृत्त्यर्थिनां, महामात्राभितप्तानां, बलाद्विगृहीतानां, व्यवहारे दुर्बलानां, स्वभोगेनारसंतुष्टानां, राजनि प्रीतिकामानं, राजभजनेषु व्यक्तिमिच्छतां, सजातैर्बाध्यमानानां, सजातान्बाधितुकामानां, सूचकानाम्, अन्येषां कार्यवशिनां, जाया व्याख्याताः॥२६॥