कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 291, कुल 353 में से
संदर्भ में पढ़ें२८४ सटीके कामसूत्रे [ ६ अधिकरणे,
अनुरागस्यावचनमाकारतस्तु दर्शयेन्मदस्वप्नव्याधिषु तु निर्वचनं, श्लाघ्यानां नायककर्मणां च ॥ ११ ॥
अनुरागस्येति। जातरागाऽस्मिकामयस्व मामिति, न वाच्यं लज्जापरिहारार्थं, कथमनुरागं ख्यापयेदित्याह—आकारतस्तु दर्शयेद्, यथा जानाति कामातुरेति, तत्राप्यपरिज्ञाने मदस्वप्नव्याधिषु निर्वचनं, कृतमत्ता कृतसुप्ता च ब्रूयाद्, अगत्या व्याधिमपदिशेद्, असम्भोगेनैव व्याधिताऽस्मीति, श्लाघ्यानामिति। श्लाघनीयानां देवकुलतडागादीनां धर्मयशोऽर्थानां निर्वचनं साधु कृतमिति ॥ ११ ॥
तस्मिन्ब्रुवाणे वाक्यार्थग्रहणं, तदवधार्य प्रशंसा, विषये भाषणं, तद्वाक्यस्य चोत्तरेण योजनं, भक्तिमांश्चेत् ॥ १२ ॥
तस्मिन्निति। नायके किंचिद् वस्तुब्रुवाणे वाक्यार्थग्रहणम्, इदमनेकमिति, न त्ववधीरयेदन्यथा मयि जातावज्ञेत्याशङ्केत, तदवधार्येति। न केवलमर्थग्रहणं तदुक्तमवधार्य प्रशंसा कर्तव्या, सुभाषितमुक्तं कोऽयो नाम जानात्येवमभिधातुमिति, विषये भाषणं, शब्दस्पर्शादियूक्तिः कर्तव्या, कस्मिन्विषये स्वाभिरुचिरिति ज्ञापनार्थं तथैवानुतिष्ठेद्, वाक्योत्तरेण योजनं बुद्धिवैदग्ध्यख्यापनार्थं, तत्रापि भक्तिमांश्चेद् यदि भवान् अजातस्नेहस्य वचने प्रत्युतावधीर्यमाणं वैलक्ष्यं स्यात्॥ १२ ॥
कथास्वनुवृत्तिरन्यत्र सपत्न्याः ॥ १३ ॥
कथास्वनुवृत्तिस्तेन कथ्यमानास्वनुवर्तनं तन्मुखावलोकनहुंकारादाम्, अन्यथाऽस्या मध्यवज्ञेति मन्येत, अन्यत्रेति। सपत्न्याः सपत्नीजायामीर्ष्याकोपख्यापनार्थं नानुवृत्तिः ॥ १३ ॥
[निः]श्वासे जृम्भिते स्खलिते पतिते वा तस्य चार्तिमाशंसीत ॥ १४ ॥
निःश्वासे=दीर्घनिःश्वसिते, जृम्भिते=क्षणं क्षणं जृम्भिकायां, स्खलिते=अर्थविस्मरणे, पतिते वा समेत्य पिच्छिले भूमिभागे पतने, तस्य [नाय]कस्यार्तिमाशंसीत, मा भूत्पीडेति, तेषामनिष्टसूचकत्वात् ॥ १४ ॥
क्षुतव्याहृतविस्मितेषु जीवेत्युदाहरणम् ॥ १५ ॥
क्षुतं = छिक्का, तदादिषु, जीवेत्युक्तिः स्नेहसूचिका ॥ १५ ॥
दौर्मनस्ये व्याधिदौर्हृदापदेशः ॥ १६ ॥
दौर्मनस्य इति। नायकान्तरसम्बन्धनिष्ठुरश्रवणाद् दौर्मनस्ये जाते, कारणं पृच्छतेऽपि तस्मै न कथयेत्, तद्गतस्नेहप्रच्छादनार्थं, तु व्याधिदौर्हृदापदेशः, व्याधेः शत्रुत्वं व्यपदिशेद्, चिरानुबन्धो मे