भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 292, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 292

१ अध्याये ] कान्ताऽनुवृत्तप्रकरणम् । २८५

व्याधिः शत्रुबर्बाधत इति ॥ १६ ॥

गुणतः परस्याकीर्तनं, न निन्दा समानदोषस्य, दत्तस्य धारणम् ॥ १७ ॥

गुणतः परस्याकीर्तनम्, अन्यथाऽन्यासक्तेति जानीयात्, समानदोषस्येति । नायकेन तुल्यदोषस्यान्यस्य न निन्दा, मा भूदेतद्वारेण मां जुगुप्सत इत्यस्याशङ्का, दत्तस्य तेन दत्तस्य खर्परखण्डस्यापि ग्रहणम् ॥ १७ ॥

वृथाऽपराधे तद्व्यसने वाऽलङ्कारस्याग्रहणमभोजनं च ॥ १८ ॥

वृथाऽपराधे, यावदेव जानात्यनपराद्धमिति, तावदेव प्रतिविधानाथ-स्वेदाभ्यङ्गोपवासादिभिः शरीरपीडा दर्शयितव्या, तद्व्यसने नायकस्य पुत्रभ्रात्रादिनाशे, व्याधौ वा ज्वरादावुत्पन्नेऽलंकाराग्रहणमिति, मण्डन-प्रतिषेधः, भोजनाभावश्च ॥ १८ ॥

तद्युक्ताश्च विलापाः, तेन सह देशमोक्षं रोचयेद्, राजनि निष्क्रयं च ॥ १९ ॥

तद्युक्ताश्चेति । नायकेन व्याधिव्यसनाभ्यां च युक्ताः कथमपा-पस्य पतितमेतद् इति विलापाः कार्याः, तथा च त्वद्दुःखेनारहं दुःखि-तेति सूचितं भवति, तेनेति । नायकेन सह देशमोक्षः स्वदेशत्यागस्त-मेव रोचयेद्, माता मे विषमशीला; अपलाप्य मां देशान्तरं नयेः येन स्वातन्त्र्यात्तवानुवृत्तिं विधास्य इति, राजनि निष्क्रयं च, यदि राज-प्रतिबद्धा तदानीं राज्ञः सकाशान्मां निष्क्रीणीहीति रोचयेद्, अन्यथा पलायितां मामानानयेत् ॥ १९ ॥

सामर्थ्यमायुषस्तदवाप्तौ तस्यार्थाधिगमेऽभिप्रेतसिद्धौ शरीरोपचये वा पूर्वसम्भाषित इष्टदेवतोपहारः ॥ २० ॥

तदवाप्ताविति । यत्प्रायशो न घटते, तस्यावाप्तौ सत्यां समर्थे ममायुः येन त्वं घटितः, अन्यथा नियतं विनष्टाऽस्मीति ब्रूयाद्, अर्थाधिगम इति । अचिन्तितस्यार्थस्य लाभेऽभिप्रेतसिद्धावीप्सितार्थप्राप्तौ शरीरो-पचये वा व्याध्याद्यपगमात्, पूर्वेति । न तदानीमेव संभाषेत, अर्थला-भादिनिमित्तमाशापूरिकाया देव्या मयोपथाचितकं कृतं तेन च तव संम्पन्ना मनोरथाः सांप्रतं तस्यै बलिरुपहर्तव्य इति ॥ २० ॥

नित्यमलङ्कारयोगः, परिमितोऽभ्यवहारः ॥ २१ ॥

नित्यमिति । यत्तु 'नित्यमलंकारयोगिनी स्याद्, इत्युक्तं तदुपावर्तन-