कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 294, कुल 353 में से
संदर्भ में पढ़ें२ अध्याये ] कान्ताऽनुवृत्तप्रकरणम् । २८७
स्वमिति द्रव्यं, नायकसंबन्धि, आत्मीयं वा स्थापनपालनाभ्याम-विशेषेण पश्येत् ॥ २८ ॥
तेन विना गोष्ठ्यादीनामगमनमिति ॥ २९ ॥
तेनेति । नायकेन विना गोष्ठ्यादीनामगमनं, यदि गमनं तेनैव, तत्र गोष्ठी सखीभिस्सह, आदिशब्दाद् घटोद्यानादयः ॥ २९ ॥
निर्माल्यधारणे श्लाघोच्छिष्टभोजने च ॥ ३० ॥
निर्माल्येति । स्वकीयं माल्यादि मम देयमिति, मदीयं वा स्पृष्ट्वा परिधार्य्यमिति, निमन्त्रितो न मां नयसि भुक्तशेषमवश्यम् प्रेषयितव्यमिति ॥ ३० ॥
कुलशीलशिल्पजातिविद्यावर्णवित्तदेशमित्रगुणवयोमाधुर्य्यपूजा ॥ ३१ ॥
कुलशीलेति । उदितोदितं कुलमस्य नानुदितानुदितम् अनुदितोदितं चेति, शोभनं शीलं न विषममिति, प्रकृष्टमालेख्यादि शिल्पं नाप्रकृष्टमिति, विशुद्धाऽस्य जातिर्न संकीर्णेति, निर्मलाऽस्यान्वीक्षिक्यादिविद्या न दुर्ग्रहीतेति, कनकपिञ्जरोऽस्यवर्णो न पाण्डुरिति, न्यायेनोपार्जितंवित्तं नान्यायेनेति, पूज्योऽस्य देशो नापूज्य इति, गुणवन्त्यस्य मित्राणि न दोषवन्ति, शोभना अस्य गुणा न त्वशोभनाः, प्रथमं वयो न तृतीयमिति, मधुरं वचो नामधुरं चेति, पूजा = स्तुतिः कर्त्तव्या ॥ ३१ ॥
गीतादिषु चोदनमभिज्ञस्य ॥ ३२ ॥
अभिज्ञस्य तद्विद्याज्ञस्य गीतादौ प्रेरणम्, अनभिज्ञश्चोद्यमानो मामुपहसतीत्याशङ्केत, अभिज्ञस्तु मद्विज्ञानं श्लाघत इति मन्येत ॥ ३२ ॥
भयशीतोष्णवर्षाण्यनपेक्ष्य तदभिगमनम् ॥ ३३ ॥
भयेति । रात्रावन्धकारेऽपि भयं, हेमन्ते शीतं, ग्रीष्म उष्णं, वर्षासु वर्षमनपेक्ष्य तदभिगमनम्, इदमासक्तिख्यापनार्थम् ॥ ३३ ॥
स एव च मे स्यादित्योर्ध्वदैहिकेषु वचनम् ॥ ३४ ॥
और्ध्वदैहिकेष्विति । वर्त्तमानाद् देहात् परलोके यो देहस्स ऊर्ध्वदेहः तत्प्रयोजनकेषु दानादिषु, स एव मे स्यादिति, अनेन पुण्येन जन्मान्तरेऽपि स एव मे वल्लभो भूयादिति वचनमुदाहर्त्तव्यम् ॥ ३४ ॥
तदिष्टरसभावलीलाऽनुवर्तनम् ॥ ३५ ॥
तदिष्टेति । नायकस्य शृङ्गारादिषु य इष्टो रसो भावः, स्थायिसंचारिसात्त्विकेषु, लीलाचेष्टितानि तेषामनुवर्त्तनम् ॥ ३५ ॥
मूलकर्म्माभिशङ्का ॥ ३६ ॥