कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 306, कुल 353 में से
संदर्भ में पढ़ें३ अध्याये ] निष्कासनक्रमप्रकरणम् । २९९
हसेद्, वदति तस्मिन्कटाक्षेण परिजनस्य प्रेक्षणं ताडनं च, आहत्य चास्य कथामन्याः कथाः, तदलीकानां व्यसनानां चापरिहार्या- णामनुकीर्तनं, मर्मणां च चेटिकयोपक्षेपणम् ॥ ४२ ॥
वाक्येष्विति । छलग्रहणं विरूपकमुक्तमिति, अनर्मणीति । क्रीडार- हितेऽपि संकथने हासोऽकस्मात्कर्तव्यः, येनायं विनैव क्रीडाक्रियया मामुपहसतीति मन्यते, नर्मणि चेति । क्रीडायां प्रस्तुतायामर्थान्तरमप- दिश्य हसेत्, तस्मिन्नायके वदति सति परिजनस्य स्वस्य कटाक्षेण प्रेक्षणं कर्तव्यं, ताडनं च, सहासं हस्तेन येनायं जानाति नास्मत्कथायां रमत इति, आहत्य चेति । तेन क्रियमाणां कथामपास्यान्याः कथाः- कर्तव्याः, तदलीकानां नायकापराधानां व्यसनानां द्यूतादी- नाम्, अपरिहार्याणामिति । यान्युभयान्यपि परिहर्तुमशक्यानि तेषा- मनुकीर्तनं वैराग्यजननार्थम्, मर्मणां चानुकीर्तनं येषूक्तेषु दुःखमास्ते, चेटिकामुपक्षिप्य सर्वमभिधापयेद्, एभिरुपायैर्निष्क्रमणयोग्यतामापा- दितस्योपायद्वयं यतः पुनर्नार्गच्छतीति ॥ ४३ ॥
यदाह—
आगते चादर्शनमयाच्ययाचनमन्ते स्वयं मोक्षश्चेति परिग्रह- कल्पो दत्तकस्य ॥ ४४ ॥
आगते चादर्शनमिति । यावद्यावदागच्छति तावत्तावदात्मानं- न दर्शयेत्, पश्यति चेदयाच्ययाचनं, यन्न याचितुमर्हाति तद्या- चेत, अन्ते चावसाने मोक्षः स्वयमेव परित्यागः कर्तव्यः, तस्योपायैः- प्रायेण निवारितत्वात्, परिग्रहकल्प इति । वेश्याया गम्यस्य यः परि- ग्रहस्तस्य कल्पो विधिरेतावानेव दत्तकप्रोक्तो न मयाऽभिहितः, तेन हि गणिकानां नियोगात्संक्षेपेणाभिधातुमीप्सितत्वात् ॥ ४४ ॥
यत्त तच्छेषभूतं विशीर्णप्रतिसंधानादिकमपि बाभ्रव्योक्तं, तदहं व- क्ष्यामीति मन्मते, यदि परिग्रहः कर्तव्याऽनेनाधिकरणेन कथ्यते, कथं वैशिकम् ? इत्युच्यत इत्याह—
भवतश्चात्र श्लोकौ—
परीक्ष्य गम्यैः संयोगः संयुक्तस्यानुरञ्जनम् । सक्तार्थस्य चादानमन्ते मोक्षश्च वैशिकम् ॥ ४५ ॥
परीक्ष्येति । सहायगम्यागम्यगमनकारणचिन्तां कृत्वेत्यर्थः, गम्यैः- संयोगो गम्योपावर्तनेन, संयुक्तस्यानुरञ्जनं कान्तानुवृत्तेः, सक्तार्थस्य चादानं तदुपायैः, अन्ते मोक्षश्च निष्कासनक्रमैः, एतत्सर्वं वेश्योचितं न