भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 307, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 307

३०० सटीक कामसूत्रे [ ६ अधिकरणे,

कुलयोषिदुचितं, तच्च वैशिकमिति संज्ञितं, यदाह कात्यायनः-‘वेशं-वेश्याजनोचितम्’ इति, स प्रयोजनमस्येति वैशिकम् ॥ ४५ ॥

तस्य वेशस्य प्रयोजनमाह—

एवमेतेन कल्पेन स्थिता वेश्या परिग्रहे ।
नातिसंधीयते गम्यैः करोत्यर्थांश्च पुष्कलान् ॥ ४६ ॥

इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणेऽर्थागमोपाया विरक्तप्रतिपत्तिर्निष्कासनक्रमास्तृतीयोऽध्यायः ।

एवमिति । कल्पेनेति । वैशिकाख्येन, नातिसंधीयते = नातिवञ्च्यते, पुष्कलानिति । अनेकानित्यर्थः ॥ ४६ ॥

इति निष्कासनक्रमाः पञ्चपञ्चाशत्तमं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठेऽधिकरणेऽर्थागमोपाया विरक्तप्रतिपत्तिर्निष्कासनक्रमास्तृतीयोऽध्यायः ।


चतुर्थोऽध्यायः

शास्त्रकार एव प्रकरणसंबन्धमाह--

वर्तमानं निष्पीडितार्थमुत्सृजन्ती विशीर्णेन सह संदध्यात् ॥१॥

वर्तमानमिति । तस्यां यो वर्तते तमलक्तकवन्निष्पीडितार्थमुत्सृजन्ती यदा त्यक्तुकामा तदा, विशीर्णेनेति । पूर्वसंसृष्टेन निष्कासितेन संधित्सुना सह संदध्याद्, एवं सति 'अपवाहयेदन्यमवष्टभ्य' इत्यनुगतं भवतीति विशीर्णप्रतिसंधानमुच्यते ॥ १ ॥

विशीर्णस्यालक्तकवदुत्सृष्टस्य किं संधानेनेति चेदाह—

स चेदवसितार्थो वित्तवान्सानुरागश्च ततः संधेयः ॥ २ ॥

सेति । वित्तवानपि यदाऽवसितार्थोऽवश्यं दास्यतीति, सानुरागश्च, अन्यथा विश्वसनार्थं यत्किंचिद्दत्त्वाऽपि निष्कासितोऽहमनयेति विरक्तोऽपकुर्यात्, तत इति । तस्मात्कारणात्संधेयः, सोऽप्यन्यया यदि न संसृष्टः ॥ २ ॥

यस्तु संसृष्टस्तत्र विधानान्तरमाह—

अन्यत्र गतस्तर्कयितव्यः स कार्ययुक्त्या षड्विधः ॥ ३ ॥

अन्यत्र गत इत्यनेन षड्विधो विशीर्ण इति, तर्कयितव्य इति । निरूप्यो वक्ष्यमाणेन न्यायेन सहसा न संधेयः, स इति । योऽन्यत्र गतः, कार्ययुक्त्येति । कार्ययोगाद् षड्विधः, असंसृष्टस्त्वेकविधः ॥ ३ ॥

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित) · पृष्ठ 307, कुल 353 में से · BharatKosha