भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 308, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 308

४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०१

कार्ययुक्तिमाह—

इतः स्वयमपसृतस्ततोऽपि स्वयमेवापसृतः ॥ ४ ॥

इत इति । स्वदोष एवास्य, यदस्या नायिकातः स्वयमेवापसृत्यान्यत्र गतः, यत्रापि गतस्तत्रापि स्वयमेवापसृत इत्येकः ॥ ४ ॥

इतस्ततश्च निष्कासितापसृतः ॥ ५ ॥

इतस्ततश्चेति । अत्राश्रययोर्दोषो नाश्रितस्य दोषः, यस्मादितो निष्कासितोऽपसृतस्तत्र गतस्ततोऽपि निष्कासित एवापसृत इति द्वितीयः ॥ ५॥

इतः स्वयमपसृतस्ततो निष्कासितापसृतः ॥ ६ ॥

इतः स्वयमपसृत इति । आश्रितस्य दोषः, ततोऽपि निष्कासितोऽपसृत इत्याश्रयस्य चेति तृतीयः ॥ ६ ॥

इतः स्वयमपसृतस्तत्र स्थितः ॥ ७ ॥

इतः स्वयमपसृत इत्याश्रितस्य दोषः, तत्र स्थित इति । नोभयोरिति चतुर्थः ॥ ७ ॥

इतो निष्कासितापसृतः ॥ ८ ॥

इतो निष्कासितापसृत इति । उभयस्य दोषः, ततः स्वयमपसृत-इत्याश्रितस्येति पञ्चमः ॥ ८ ॥

इतो निष्कासितापसृतस्तत्र स्थितः ॥ ९ ॥

इतो निष्कासितः सन्नपसृत इत्याश्रयदोषः, तत्र स्थित इति । नोभयोरपीति षष्ठः ॥ ९ ॥

एषु संधेयासंधेयतया तर्कमाह—

इतस्ततश्च स्वयमेवापसृत्योपजपति चेदुभयोर्गुणानपेक्षी चलबुद्धिरसंधेयः ॥ १० ॥

उपजपति चेदिति । यदि संधातुं पीठमर्दादिमुखेनोपसृत्य भणतीत्यर्थः, तत्र द्वितीयपक्षाभावात्तर्कयितव्य इति नोक्तं, यदाह—उभयोरिति । तस्यास्तस्याश्च, ताभ्यामनिष्कासितत्वात्, सतोऽपि गुणाननपेक्ष्य चलबुद्धित्वात्स्वदोषेणैवापसृतः, स संहितोऽपि न स्थायी न च तस्मादर्थेन योग इत्यसंधेयः ॥ १० ॥

इतस्ततश्च निष्कासितापसृतः स्थिरबुद्धिः स चेदन्यतो बहु लभमानया निष्कासितः स्यात्ससारोऽपि तया रोषितो ममामर्षार्दू, बहु दास्यतीति संधेयः ॥ ११ ॥

इतस्ततश्च निष्कासितेति । उपजपति चेदिति वर्तते, स्थिरबुद्धिः-