कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 309, कुल 353 में से
संदर्भ में पढ़ें३०२ सटीक कामसूत्रे [ ६ अधिकरणे,
स्वयमपसृतत्वाद्, अत्र पक्षद्वयमप्यस्ति, यदाह-स चेदिति । अत्र तर्कयितव्य इति नोक्तं, चेच्छब्देनैव यद्यर्थेन तदर्थस्योक्तत्वाद्, अन्यतइति । अन्यस्माद्गम्याद्बहु लभमानया निष्कासितः, ससारोऽपि सद्द्रव्योऽपि, ततश्च तया सरोषितो जनितरोषोऽमर्षाद्बहु दास्यतीति ज्ञात्वा; तदानीमेव संधेयस्तयैव रोषितत्वात्, तस्यामनुशयं बध्नाति ॥ ११ ॥
निःसारतया कदर्यतया वा त्यक्तो न श्रेयान् ॥ १२ ॥
निःसारतया निर्द्रव्यतया ससारश्च कदर्यतयाऽवदान्यतया, त्यक्तो निष्कासितः, न श्रेयान् संधातुमिहापि तुल्यत्वात् ॥ १२ ॥
इतः स्वयमपसृतस्ततो निष्कासितापसृतो यद्यतिरिक्तमादौ च दद्यात्ततः प्रतिग्राह्यः ॥ १३ ॥
इतः स्वयमपसृतस्ततो निष्कासितापसृत इति । अत्राप्युपजपेदिति वर्तते, अत्रापि यदि शब्दात्तर्कयितव्य इति नोक्तम्, अतिरिक्तं पूर्वस्माद्दानाद्, आदौ च यावन्न संप्रयोगः, कृतकृत्यस्य हि स्वयमपसर्पणसंभवात्, प्रतिग्राह्यः, संधेयः अत्र विपर्ययेणाप्रतिग्राह्य इत्यर्थोक्तो द्वितीयपक्षः ॥ १३ ॥
इतः स्वयमपसृत्य तत्र स्थित उपजपंस्तर्कयितव्यः ॥ १३ ॥ तर्कयितव्यः किमुपकर्तुमपकर्तुं वोपजपतीति ॥ १४ ॥
अत्र संधेयपक्षमाह—
विशेषार्थी चागतस्तत्र विशेषमपश्यन्नागन्तुकामो मयि मां जिज्ञासितुकामः स आगत्य सानुरागत्वाद्व्यास्यति ॥ १५ ॥
विशेषार्थितया यत्र गतस्तत्र विशेषं सुरतगतमपश्यंस्तस्या अविदग्धत्वात्, तत इति । तस्याः सकाशाद्, अस्मन्मूलमागन्तुकामोमयि दृष्टविशेषत्वाद्, मां जिज्ञासितुकाम इति । तत्रत्य एव मयि जिज्ञासां कर्तुमिच्छुः, किमियं मां स्वयमपसृतमिच्छति न वेति, सानुरागत्वाद्दास्यति दृष्टविशेषत्वात् ॥ १५ ॥
तस्यां वा दोषान्दृष्ट्वा मयि भूयिष्ठान्गुणानधुना पश्यति स गुणदर्शी भूयिष्ठं दास्यति ॥ १६ ॥
तस्यां वा दोषान्गुणविपर्ययान्दृष्टवान्, आगन्तुकाम इति योज्यं, सत्सु वा गुणेषु मयि भूयिष्ठान्प्रभूततमान्गुणानधुना पश्यति, तद्गुणान्स्तोकान्दृष्ट्वा, स उभयस्मिन्नपि पक्षे मयि गुणदर्शी, भूयिष्ठं = प्रभूतं, दास्यति ॥ १६ ॥