भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 310, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 310

४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०३

-असंधेयपक्षमाह-

बालो वा नैकत्रदृष्टिरतिसंधानप्रधानो वा हरिद्रारागो वा य-
त्किंचनकारी वेत्यवेत्य संदध्यान्न वा ॥ १७ ॥

बालो वेति । आरोहद्यौवनत्वाद्, नैकत्रदृष्टिस्तत्रान्यत्र वाऽभिप्रायो-
ऽस्य स काकाक्षिवद् वर्त्तमानः किं दास्यति, अतिसंधानप्रधानो वा,
वञ्चनैकनिष्ठः, हरिद्रारागो वेति । हरिद्राराग इव रागो यस्य, न चिर-
स्थायी, मयि विरक्तो यत्र गतस्तत्रापि विरक्तः पुनरागन्तुकामः किं-
दास्यति, यत्किंचनकारी वा सोऽनर्थमपि कुर्याद्, इत्येवमवेत्य ज्ञात्वा
संदध्यात् प्रथमे पक्षे, न वेति । नैव संदध्यादिति द्वितीये ॥ १७ ॥

इतो निष्कासितापसृतस्ततः स्वयमपसृत उपजपंस्तर्क-
यितव्यः ॥ १८ ॥

तर्कयितव्य इत्युपकारापकाराभ्याम् ॥ १८ ॥

अनुरागादागन्तुकामः स बहु दास्यति मम गुणैर्भावितो योऽ-
न्यस्यां न रमते ॥ १९ ॥

अनुरागादागन्तुकामः, तत्रानिष्कासितत्वाद्, मम गुणैर्भावितोऽ-
नुरञ्जितोऽयं, योऽन्यस्यां न रमते, येन ततोऽपि स्वयमेवापसृतः ॥ १९ ॥

पूर्वमयोगेन वा मया निष्कासितः स मां शीलयित्वा वैरं नि-
र्यातयितुकामः, धनमभियोगाद्वा मयाऽस्यापहृतं तद्विश्वास्य प्रती-
पमादातुकामः, निर्वेष्टुकामो वा, मां वर्तमानाद्भेदयित्वा त्यक्तुका-
म इत्यकल्याणबुद्धिरसंधेयः ॥ २० ॥

पूर्वमयोगेनेति । अन्यायेन निष्कासितः, स मां शीलयित्वेति । अनु-
रागप्रदर्शनेनानुप्रविश्य, वैरं निर्यातयितुकामः प्रयच्छन्नप्यहमनया हठा-
न्निष्कासित इति, धनमभियोगाद्वेति । अस्याभियोगमेव कुर्वत्या मया
धनं बह्वपहृतमाकृष्टं, संप्रयोगश्च कादाचित्कः कृतः, तद्धनं स्नेहोपदर्श-
नेन मां विश्वास्य प्रतीपमादातुकामः, निर्वेष्टुकामो वेति । निष्पूर्वो विश-
स्तिर्निर्वेशे भृतौ वर्तते, इदानींतनसंयोगे तदेव धनं निर्वेशं कर्तुकामो-
नान्यद्दातुकामः, मां वा वर्तमानादिति । निष्कास्यैनं येन सह वर्तेऽहं-
तस्माद्वर्तमानाद्दातुकामात् संधानेन मां भेदयति, मा भूदस्या लाभेन
योग इति, स्वयं दास्यतीति चेदाह-त्यक्तुकाम इति । अकल्याणबुद्धि-
र्वैरनिर्यांतनाद्यभिप्रायः ॥ २० ॥

अन्यथाबुद्धिः कालेन लम्भयितव्यः ॥ २१ ॥

अन्यथाबुद्धी रागाद् दातुकामः कालेन, न तदानीमेव तस्य निष्का-