कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 311, कुल 353 में से
संदर्भ में पढ़ें३०४ सटीक कामसूत्रे [ ६ अधिकरणे,
सनेनापादितवैकृतत्वाद्, लम्भयितव्य इति। प्रापयितव्यो न तु प्राप्यः-स्वातन्त्र्येण लाघवात् ॥ २१ ॥
इतो निष्कासितस्तत्र स्थित उपजपन्नेतेन व्याख्यातः ॥२२॥
एतेनेति। अनन्तरोक्तेन विशीर्णेन व्याख्यातः, अयमपि तथैव तर्कयित्वा; अकल्याणबुद्धिरसंधेयोऽन्यथाबुद्धिः कालेन, न तदानीमेव लम्भयितव्य इति ॥ २२ ॥
तेषूपजपत्स्वन्यत्र स्थिता स्वयमुपजपेत् ॥ २३ ॥
येऽन्यत्र ये च न गताः संधेयास्तेषूपजपत्सु, न त्वनुपजपत्सु लाघवाद्, अन्यत्र स्थितेति। द्विधा-वर्तमाना, त्याज्य इतरस्मिंश्च, कारणापेक्षया स्वयमुपजपेत् ॥ २३ ॥
बहूनि कारणान्याह—
व्यलीकार्थे निष्कासितो मया, असावन्यत्र गतो यत्नादानेतव्यः ॥ २४ ॥
व्यलीकार्थमिति। व्यलीकमपराधो यदन्यस्याभिगमनं तन्निमित्तं मया निष्कासितः स पुनर्दास्यतीति, यत्नादानेतव्यः, ततोऽपि फलेन योगात् ॥ २४ ॥
इतः प्रवृत्तसम्भाषो वा ततो भेदमवाप्स्यति ॥ २५ ॥
इतः प्रवृत्तसम्भाषो वेति। मामुद्दिश्य प्रवृत्तसम्भाषः, इदं ते दास्यामीति, तत इति। यत्र गतस्तस्याः सकाशाद् भेदमवाप्स्यतीति ॥ २५ ॥
वर्तमानस्य वा दर्पविघातं करिष्यामि ॥ २६ ॥
किमन्यस्यै ददासीति तद्दर्पविघातं करिष्यामि, येन तद्दर्पो वर्तमानो विलक्षीभूतो निष्क्रामति ॥ २६ ॥
अर्थागमकालो वाऽस्य, स्थानवृद्धिरस्य जाता, लब्धमनेनाधिकरणं, दारैर्वियुक्तः, पारतन्त्र्याद्व्यावृत्तः, पित्रा भ्रात्रा वा विभक्तः ॥ २७ ॥
अर्थागमकालो वाऽस्य, वणिज्यया सेवया वा, स्थानवृद्धिर्वा, ग्रामादेरधिकस्य लाभाद्, लब्धं वाऽनेनाधिकरणमक्षपटलादिकं, दारैर्वियुक्तः, ममेदानीमवसरः प्राप्तः, पारतन्त्र्याद्व्यावृत्तः, कर्मस्थानेषु गृहे वा स्वतन्त्रः सुखं दास्यति, पित्रा जीवतैव विभक्तः, भ्रात्रा पितरि मृते ॥ २७ ॥
अनेन वा प्रतिबद्धमनेन संधिं कृत्वा नायकं धनिनमवाप्स्यामि ॥ २८ ॥