भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 315, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 315

३०८ सटीक कामसूत्रे [ ६ अधिकरणे,

आयतिमिति। प्रभावं, लाभमायत्यां, तदात्वे प्रीतिं पुष्कलां निर्व्याजं तस्यात्मविषये, सौहृदमात्मनस्तस्मिन् विषये, विचक्षणेति । परीक्षणे विचक्षणा = कुशला ॥ ४४ ॥

इति विशीर्णप्रतिसन्धानं षट्पञ्चाशत्तमं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठेऽधिकरणे विशीर्णप्रतिसन्धानं चतुर्थोऽध्यायः ।


पञ्चमोऽध्यायः ।

त्रिविधा वेश्या—एकपरिग्रहा, अनेकपरिग्रहा, अपरिग्रहा चेति, तत्र पूर्वस्या लाभ उक्तः, द्वितीयां वक्ष्यति, तृतीयाया विना परिग्रहमनेकस्माल्लभमानाया लाभविशेषा उच्यन्ते,

तत्रापरिग्रहकारणमाह—

गम्यबाहुल्ये बहु प्रतिदिनं च लभमाना नैकं प्रतिगृह्णीयात् ॥१॥

गम्येति। यदा गम्या बहवस्तेभ्यः स्पर्धया बहु लभते, प्रतिदिनं चैकैकमभिगच्छन्ती तदा नैकं प्रतिगृह्णीयात्, स हि बहु प्रतिदिनञ्च न ददाति ॥ १ ॥

यद्येवमनियतो लाभः ततश्च कश्चित्स्वल्पमपि दद्यात् तद्ग्रहणे चान्येऽपि तावन्मात्रकमेव दद्युरित्याह—

देशं कालं स्थितिमात्मनो गुणान्सौभाग्यं चान्याभ्यो न्यूनातिरिक्तां चावेक्ष्य रजन्यामर्घं स्थापयेत् ॥ २ ॥

देशं सम्पन्नमितरं वा, कालं यत्र काम उद्भूतशक्तिरनुद्भूतशक्तिर्वा, स्थितिः = देशप्रवृत्तिः, यथाऽपरकायं सेवमानस्यैकगुणः पूर्वकायमपि द्विगुणः, आत्मनो गुणान्रूपवैदग्ध्द्यादीन् सतोऽसतो वा, तथा सौभाग्यम्, अन्याभ्य इति। वेश्याभ्यः स्थानमानाभ्यामात्मनो न्यूनत्वं चाधिक्यं चावेक्ष्य तदनुरूपं रजन्यामर्घं स्थापयेद् , इयमेकां रात्रिमियता शेत इति ॥२॥

तत्र यदाऽवस्थापितेनार्घेण गम्य एव स्वदूतसम्प्रेषणेन भाणयति सिद्धं कार्यं, नो चेत्तत्राह—

गम्ये दूतांश्च प्रयोजयेत् तत्प्रतिबद्धांश्च, स्वयं प्रहिणुयात् ॥३॥

तत्प्रतिबद्धान् = गम्यप्रतिबद्धान्, प्रयोजयेदभिप्रायजिज्ञासाऽर्थं, विदिताभिप्राया तु स्वयं प्रहिणुयात् प्रेषयेदात्मीयानित्यर्थः ॥ ३ ॥

दूतसम्प्रेषणाद्गम्यसम्प्रेषणे रजन्यर्घलाभः, तस्मान्नियमितादधिको-