भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 314, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 314

४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०७

तिसक्तं विशीर्णे वाऽनुरक्तमपेक्ष्य तदैव सम्प्रयोग इति दर्शन्नाह—

बिभेत्यन्यस्य संयोगाद्व्यलीकानि च नेक्षते । अतिसक्तः पुमान्यत्र भयाद्बहु ददाति च ॥ ४० ॥

बिभेतीति । यत्र यस्मिन्सन्निधाने वर्तमानेऽतिसंसक्तोऽप्यन्यस्य संयोगाद्विभेति, संयुक्तोऽयं कदा चिदपकरिष्यतीति, व्यलीकानि च नायिकाकृतानपराधान्नेक्षतेऽवधीरयत्यतिसक्तत्वादेव, भयादिति । परित्यागभयाद् बहु ददाति ॥ ४० ॥

असक्तमभिनन्देच्च सक्तं परिभवेत्तथा । अन्यदूतानुपाते च यः स्यादतिविशारदः ॥ ४१ ॥

असक्तमिति । यो विशीर्णोऽप्यनुरक्तत्वाद्धर्तमानमसक्तमभिनन्देद्-विज्ञातभावत्वाद्, यदस्यां न रक्त इति, सक्तं परिभवेद्, अलक्तकावस्थां-प्राप्स्यस्यचिरेणेति, अन्यदूतानुपाते चेति । अन्यस्य सम्बन्धि न्यायाति दूतेऽतिविशारदोऽत्यर्थमर्थदो मा भूदन्येन सन्धानमिति ॥ ४१ ॥

तत्रोपजापिनं पूर्वं नारी कालेन योजयेत् । भवेच्चाच्छिन्नसंधाना न च सक्तं परित्यजेत् ॥ ४२ ॥

तत्रेति । तस्मिन्संधाने, पूर्वमिति । पूर्वसंसृष्टं विशीर्णमुपजापिनं, नारीति । सामान्याभिधानेऽपि प्रकरणाद्वेश्यैव द्रष्टव्या, कालेन योजयेद्, न तदैव सम्प्रयोजयेद्, अन्यथा तदात्व एव वर्तमानेनातिसक्तेन फल-वतां विश्लेषः स्याद्, विशीर्णोऽप्यतिरक्तत्वात् प्रत्याशया कालान्तर-मपेक्षत एव, यदाह-‘भवेच्चाच्छिन्नसंधानेति । विशीर्णेन सहेत्यर्थः, न च सक्तं परित्यजेत्, तदात्व एव तस्य सफलत्वात् ॥ ४२ ॥

सक्तं तु वशिनं नारी संभाष्‍याप्यन्यतो व्रजेत् । ततश्चार्थमुपादाय सक्तमेवानुरञ्जयेत् ॥ ४३ ॥

यस्य तदात्वेऽन्यस्माल्लाभो महान् ; न च सम्प्रयोगं विना तत्र किं-प्रतिपत्तव्यमित्याह—सक्तं त्विति । वशिनं यथोक्तकारिणम्, अन्यत इति । अन्यमुद्दिश्य, ततश्चेति । यत्र व्रजिता सक्तमेवानुरञ्जयेत् कान्ता-नुवृत्त्या तत्र स्थितत्वाद्, नान्यम् ॥ ४३ ॥

प्रतिसंधानात् प्राक् चतुष्टयं निरूप्यमित्याह—

आयतिं प्रसमीक्ष्यादौ लाभं प्रीतिं च पुष्कलाम् । सौहृदं प्रतिसंदध्याद्विशीर्णं स्त्री विचक्षणा ॥ ४४ ॥

इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे विशीर्ण-प्रतिसंधानं चतुर्थोऽध्यायः ।