भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 338, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 338

१ अध्याये ] सुभगंकरणप्रकरणम् । ३३१

अनुष्ठानविशेषोऽपि क्व वित्तसौभाग्यनिबन्धनमित्याह-प्राप्तयौवनामिति । या बाह्य इवानन्यपूर्वा स्वामिनं परिचरति तां तरुणीमन्यतो वारयेद्रक्षयेद्, यथान्यैर्नाभिगम्येत स्वयन्त्वभिगच्छेदित्यर्थोक्तं, तत इति । तस्यावारितत्वाद्, वामत्वादिति । रक्षणयोगात् कामिनो वारिताः कौतूहलात्प्रतिकूला भवन्ति, ततश्च तेषु लालसीभूतेषु = अत्यन्तं गृध्नुषु, योऽस्यै परिचारिकायै, संधर्षेणेति । स्पर्द्धया, बहु द्रव्यं दद्याद् दुर्लभं हि प्रियमन्वितं च भवतीति प्रायोवादः, विसृजेदिति । अभिगन्तुन्दद्याद्, विशेषतो वेश्यापाणिग्रहणेऽपि विधिः सौभाग्यनिबन्धनं,पाणिग्रहश्च द्विविधः, यथोक्तं—

'दैवमानवभेदेन वेश्याविवहनं द्विधा । दैवं मन्मथकाण्डेन गम्येनाप्यपरं भवेद्' इति ॥ १२ ॥

तत्र मानुषमधिकृत्य विधिमाह—

गणिका प्राप्तयौवनां स्वां दुहितरं तस्या विज्ञानशीलरूपानुरूप्येण तानभिनिमन्त्र्य सारेण योऽस्या इदमिदं च दद्यात्स पाणिंगृह्णीयादिति संभाष्य रक्षयेदिति ॥ १३ ॥

गणिकेति । प्राप्तयौवनां रक्षयेदिति सम्बन्धः, तस्या इति । स्वदुहितुः, यादृशं रूपादि तदानुरूप्येणेति तत्सदृशः, तानिति । दुहितुर्ये गम्याः, अभिनिमन्त्र्य सारेणेति । विभवेन स्वेनाभिमुख्येन स्वगृहे निमन्त्र्य योऽस्यै दुहित्रे, इदमिदञ्चेति । ईप्सितमाह, संभाव्येति । सम्भावयेदित्युक्त्वा, रक्षयेत् पण्यधर्मत्वात् ॥ १३ ॥

सा च मातुरविदिता नाम नागरिकपुत्रैर्धनिभिरत्यर्थं प्रीयेत ॥१४॥

सा चेति । दुहिता, अविदिता नामेति । यथैते जानन्त्यस्मास्वनुरक्तेयं-येन रक्ष्यमाणाऽपि मातुरविदितवागच्छतीति, धनिभिर्नान्यैर्निरर्थकत्वाद्, प्रीयेत = प्रीतिं कुर्यात् ॥ १४ ॥

प्रीतिश्च दर्शनपूर्विका दर्शनं च विशिष्टे देशे काले चेत्याह—

तेषां कलाग्रहणे गान्धर्वशालायां भिक्षुकीभवने तत्र तत्र च संदर्शनयोगाः ॥ १५ ॥

तेषामिति । कलाग्रहणकाले, गान्धर्वशालायामिति । यत्राचार्यो नृत्यगीतं शिक्षयति, भिक्षुकीभवन इति । भिक्षुक्यादिः कलाविदग्धोपगम्यते, तत्र तत्र चेति । सरस्वतीभवनोद्यानादिषु ॥ १५ ॥

तेषां यथोक्तदायिनां माता पाणिं ग्राहयेत् ॥ १६ ॥

तेषामिति । प्रीत्यनुबद्धानामिति, यथोक्तदायिनामिति । मात्रा यत्सं-

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित) · पृष्ठ 338, कुल 353 में से · BharatKosha