कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 340, कुल 353 में से
संदर्भ में पढ़ें१ अध्याये ] वशीकरणप्रकरणम् । १३३
पाणिग्रह इति । यः पाणिं गृहीतवान्, गृह्णातीति ग्रहः पाणेग्रह इति समासः, अव्यभिचार्य इति । संवत्सरं तेनैव सह वसेत्, तत इति । संवत्सरादूर्ध्वं, यथा कामिनीति । यथेप्सिता कामयते, वेश्याधर्मस्थितत्वात् ॥ २१ ॥
ऊर्ध्वमपि संवत्सरात् परिणीतेन निमन्त्र्यमाणा लाभमप्युत्सृज्य तां रात्रिं तस्यागच्छेदिति वेश्यायाः पाणिग्रहणविधिः सौभाग्यवर्धनं च ॥ २२ ॥
ऊर्ध्वमिति परिणीतेनेति । गृहीतपाणिना, निमन्त्र्यमाणेति । अद्य रात्रौ मया सह शयितव्यमिति, लाभमुत्सृज्य; अन्यस्मादु भवन्तमपि, सौभाग्यवर्द्धनं चेति । एवं च कृत्वा पुनरभियातव्यमिति वैशिकेनोक्तम् ॥२२॥
एतेन रङ्गोपजीविनां कन्या व्याख्याताः ॥ २३ ॥
रङ्गोपजीविनामिति । नटादीनाम् ॥ २३ ॥
विशेषमाह—
तस्मै तु तां दद्युर्य एषां तूर्ये विशिष्टमुपकुर्यात् ॥ २४ ॥ इति सुभगङ्करणम् ।
तूर्य इति । नृत्यविधौ विशिष्टमुपराजयेद् नृत्यगीतादिभिः ॥२४॥
इति सुभगङ्करणमेकोनषष्टितमं प्रकरणम् ।
एवं लोकप्रियतामात्मनो विहितवतोऽभिप्रेतसिद्धयर्थं वशीकरणमुच्यते—
धत्तूरकमरिचपिप्पलीचूर्णैर्मधुमिश्रैर्लिप्तलिङ्गस्य सम्प्रयोगो वशीकरणम् ॥ २५ ॥
धत्तूरकेति । धत्तूरकबीजानि, चूर्णैरिति । समीकृतानाम्, मधुमिश्रैरिति । माक्षिकमधुमिश्रैः, यथा न च प्रयोज्या जानाति लिप्तलिङ्गोमामभिगच्छतीति ॥ २५ ॥
वातोद्ध्रान्तपत्रं मृतकनिर्माल्यं मयूरास्थिचूर्णावचूर्णं वशीकरणम् ॥ २६ ॥
वातोद्ध्रान्तपत्रं वामहस्तेन ग्रहीतव्यं, मृतकनिर्माल्यं यत्तदुरसि स्थितं, मयूरास्थि जीवजीवकास्थि न केकिसम्बन्धि ग्राह्यमेषां चूर्णेनावचूर्णनं स्त्रीणां शिरसि पुरुषाणां पादयोः ॥ २६ ॥
स्वयं मृताया मण्डलकारिकायाश्चूर्णं मधुसंयुक्तं सहामलकैः स्नानं वशीकरणम् ॥ २७ ॥