भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 38, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 38

२६ सटीक कामसूत्रे [ १ अधिकरणे,

इति तत्त्वम् , ऊहेत्यर्थः, त्रिविधं दानम् , मनसा वाचा कर्मणा चेति । पत्युरभिप्रायादिति । यदा पत्याऽनुज्ञाता तदाऽधीयीत, अन्यथा स्वैरिणीत्याशङ्कनीया स्यात् ॥ ३ ॥

योषितां शास्त्रग्रहणस्याभावान्नर्थकमिह शास्त्रे स्त्रीशासनमित्याचार्याः ॥ ४ ॥

शास्त्रग्रहणस्याभावादिति । तासां शास्त्रानधिकारात्, शास्त्रं ग्रहीतुमसमर्थत्वाच्च । इहेति । कामशास्त्रे स्त्रियमुद्दिश्य शासनम्, इदं कार्यमिदं नेत्येवंरूपम् उपदेष्टुमनर्थकम् इत्याचार्या मन्यन्ते ॥ ४ ॥

प्रयोगग्रहणं त्वासां, प्रयोगस्य च शास्त्रपूर्वकत्वादिति वात्स्यायनः ॥ ५ ॥

प्रयोगग्रहणमिति । प्रयुज्यत इति प्रयोगोऽर्थस्तद्ग्रहणमासां, तद्विज्ञेभ्यो मा भूच्छास्त्रग्रहणं, स च योषिदुपयोगीति शास्त्रेणानावेदितः कथमन्यैरुपदिश्यते तस्मान्नानर्थकं स्त्रीशासनम् ॥ ५ ॥

तन्न केवलमिहैव; सर्वत्र हि लोके कति चिदेव शास्त्रज्ञाः सर्वजनविषयश्च प्रयोगः ॥ ६ ॥

तन्न केवलमिहैवेति । तत्प्रयोगग्रहणं, केवलमिहैवास्मिन्नेव कामशास्त्रे । सर्वत्र हीति । हिशब्दो हेतौ । सर्वेषु व्याकरणज्योतिःशास्त्रादिषु दृश्यते, तदेव दर्शयति-लोक इत्यादिना । कति चिदेव शास्त्रज्ञा-ये तद्ग्रहणसमर्थाः, तेभ्यः समर्थैरसमर्थैश्च प्रयोगो गृह्यत इति सर्वजनविषयः, प्रयोगग्रहणं च शास्त्रग्रहणात्प्रधानम्, गृहीतशास्त्रस्य प्रयोगज्ञानफलत्वात् ॥ ६ ॥

प्रयोगस्य च दूरस्थमपि शास्त्रमेव हेतुः ॥ ७ ॥

प्रयोगस्य चेति । गृहीतशास्त्रस्य दूरस्थमपीति । शास्त्रज्ञजनाधारत्वाद्विप्रकृष्टमपि शास्त्रं पारम्पर्येण हेतुः, एकः शास्त्रज्ञः प्रयोगं गृह्णाति, ततोऽन्यः, तताऽन्य इति ॥ ७ ॥

अत्र दृष्टान्तमाह—

अस्ति व्याकरणमित्यवैयाकरणा अपि याज्ञिका ऊहं क्रतुषु प्रयुञ्जते ॥ ८ ॥

अस्तीति । शब्देनाचोदितार्थस्य युक्त्या विमृश्यावस्थापनमूहः, स च प्रातिपदिकलिङ्गवचनान्तरोपायेन व्याकरण उक्तः, तद्व्याकरणमस्ति यतोऽयमूहः पारम्पर्याशयादित्यवैयाकरणा अपि याज्ञिकास्तं-