भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 37, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 37

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २५

भूम्याद्यर्जनमर्थो निरनुबन्धः, परिचारिकायामभिप्रेतायां कामो निरनुबन्धः । अस्मिन्पक्षे परस्परस्यानुपघातकं प्रदर्शयन्नाह—न त्वेकार्थंद्विबाधकमिति । एक आत्मैषार्थः प्रयोजनं यस्य तदेकार्थं द्वयोर्बाधकं न कुर्याद्, अतिदानेन धर्मोऽर्थं बाधते कामं च बाधते, तपसा चात्यन्तसेवितेन कामं बाधित्वा शरीरक्षयादर्थमुपहन्ति, तथाऽर्थस्तावदात्यन्तिकउपादीयमानः पुरूरवस इव धर्मकामौ बाधते, कामस्तूत्तमवर्णासु दाण्डक्यस्येवान्यत्र वाऽत्यासेवित उभयं बाधते, यदेकस्य साधकमन्यस्य बाधकं तत्पूर्वोत्तरबाधापेक्षया कुर्यात्, तच्च यथोक्तं प्रागिति ।

इति त्रिवर्गप्रतिपत्तिर्द्वितीयं प्रकरणम् ॥ २ ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलायां साधारणे प्रथमेऽधिकरणे त्रिवर्गप्रतिपत्तिर्द्वितीयोऽध्यायः ॥ २ ॥


तृतीयोऽध्यायः ।

एवं प्रतिपन्नत्रिवर्गस्य कामसिद्धौ प्रथम उपायो यद्विद्याग्रहणम्, अगृहीतविद्यस्यानन्तरव्यापारासंभवादिति विद्यासमुद्देश उच्यते । समुद्देशश्च संक्षेपाभिधानम्, निर्देशश्च शास्त्रान्तरादुपदेशाच्चापेक्षणीयः ।

यथा च तासां ग्रहणं तथा दर्शयन्नाह—

धर्मार्थाङ्गविद्याकालानुपरोधयन् कामसूत्रं तदङ्गविद्याश्च पुरुषोऽधीयीत ॥ १ ॥

धर्मेत्यादि । तत्र धर्मविद्या श्रुतिः स्मृतिश्च, अर्थविद्या वार्ताशास्त्रं, तयोरङ्गविद्या दण्डनीतिः, योगक्षेमसाधनाद्, आन्वीक्षिकी तु तत्त्वनिश्चयहेतुत्वात्, तासां प्रधानानां यथास्वमध्ययनकालानुपरोधयन्नहापयन्, अन्तराऽन्तरा कामसूत्रमिदमेव, तदङ्गविद्याश्च गीतादिकाअधीयीत पाठश्रवणाभ्याम् ॥ १ ॥

प्राग्यौवनात्स्त्री ॥ २ ॥

प्रागिति । प्राग्यौवनात्स्त्री कामसूत्रं तदङ्गविद्याश्चाधीयीत पितुर्गृह एव, तरुण्याः परिणीतत्वात्स्वतन्त्रायाः कुतोऽध्ययनम् । 'युवतिः' इति पाठान्तरम्, तत्र स्त्रीपर्यायो द्रष्टव्यः ॥ २ ॥

प्रत्ता च पत्युरभिप्रायात् ॥ ३ ॥

प्रत्ता चेति । प्रकर्षेण दत्ता, निष्ठायामेव 'अच उपसर्गात्तः' ७।४।४७।

४ का० सू०