कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 36, कुल 353 में से
संदर्भ में पढ़ें२४ सटीक कामसूत्रे [ १ अधिकरणे,
अनुष्ठानलक्षणायाः प्रतिपत्तेः फलमाह— भवन्ति चात्र श्लोकाः—
एवमर्थं च कामं च धर्मं चोपाचरन्नरः । इहामुत्र च निःशल्यमत्यन्तं सुखमश्नुते ॥ ४९ ॥
एवमिति । यथोक्तेन न्यायेन प्रतिष्ठापिताचरणमर्थं प्रागाचरेत्, ततोऽधिगतार्थः कामं धर्मं च । इहामुत्र चेति । इह लोके परलोके च, निःशल्यं सुखमश्नुत इति । अनुतापाभावात् "समग्रो मे पुरुषार्थ" इति मनःप्रीतिमवाप्नोतीत्यर्थः । त्रिवर्गे ह्यसेवमानश्च तावदिह लोके; नैहिकं-सुखमवाप्तमिति विप्रतीकारं दुरन्तः कामानुबन्धनाद्, नापि परलोके; न मया मूढेन प्राक्कृतमवदातं कर्मेति धर्मानुषक्तत्वात्, नास्तिका निरीहकाः सुखद्विपस्त्वेकाङ्गविकलत्वात्सशल्यमवाप्नुवन्तीति मन्यते ॥ ४२ ॥
'परस्परस्यानुपघातकमन्योन्यानुबद्धम्' इत्युक्तम्, तस्यैव संग्रहः श्लोकद्वयेन—
किं स्यात्परत्रेत्याशङ्का कार्ये यस्मिन्न जायते । न चार्थघ्नं सुखं चेति शिष्टास्तत्र व्यवस्थिताः ॥ ५० ॥
किं स्यादिति । उपघातः पूर्वेणोत्तरस्य, उत्तरेण वा पूर्वस्य । तत्र यस्मिन्कार्येऽर्थोऽपि साधयिष्यते यस्तत्र किं स्यादपायोऽनपायो वेत्याशङ्का नास्ति, धर्माबाधनाद्, यच्च सुखं नार्थं हन्ति तस्मिन्नर्थे सुखे च शिष्टास्त्रिवर्गविदः स्थिता अनुष्ठातुम्, पूर्वबाधके तु न स्थिताः, यस्तु दानेन धर्मोऽर्थं बाधते, ब्रह्मचर्येण च विद्याग्रहणमर्थः कामं, तस्मिन्नुत्तरबाधके स्थिता इत्यर्थोक्तम्,
तथा चाहुः—
'अपि नाम त्रिवर्गोऽस्मिन्सेवेतोत्तरबाधकम् । पूर्वस्य तु प्रधानत्वात्र सेव्यः पूर्वबाधकः ॥ इति ॥ ५० ॥
त्रिवर्गसाधकं यत्स्याद्द्वयोरेकस्य वा पुनः । कार्यं तदपि कुर्वीत न त्वेकार्थं द्विबाधकम् ॥ ५१ ॥
त्रिवर्गसाधकमिति । धर्मादीनां यदन्यतमं कार्यमनुष्ठेयमात्मन इतरयोस्तु साधकं तत्कुर्वीत, अयमुत्तमः पक्षो ह्यनुबन्धेऽन्तर्भूतः । द्वयोर्वैकस्येति । त्रयाणां यद् द्वयोरात्मन इतरस्य च साधकं तदपि कुर्वीतेति, अयं मध्यमः पक्ष एकानुबन्धेऽन्तर्भूतः, एतदुभयमपि प्रागुदाहृतम् । यदेकस्यात्मन एव साधकं तदपि कुर्वीतेति । अयं जघन्यो निरनुबन्धेऽन्तर्भूतः । तद्यथा—पञ्चानां महायज्ञानां प्रवर्तनं धर्मो निरनुबन्धः ।