कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 35, कुल 353 में से
संदर्भ में पढ़ें२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । २३
र्यामहल्यां चकमे, ततः समित्कुशानादायागते गौतमे तद्भार्याऽहल्या शक्रं गर्भस्थमकरोत् ; तदैवोपनिमन्त्रणेन गौतमः सभार्य एवाश्रमन्तरंगतः, ततस्तेन योगचक्षुषा समुपलब्धेनेन्द्रागमनेनास्मै समुपस्थापितमासनत्रयं दृष्ट्वा चासौ "किमेतद्भार्याद्वितीयस्य ममे"ति जाताशङ्को ध्यानेन यथावृत्तमालोक्य रोषात् "सहस्रभगो भवे"ति शशाप, ततोऽसौ देवराजोऽपि कामाद्विनाशप्रत्ययां तादृशीमवस्थामाससाद, यस्याद्यापि कलङ्को "ऽहल्यायै जार" इति नास्तमेति। अतिबलः नागसहस्रबलत्वात्, सोऽपि कामाद् द्रौपदीमभिलषन्भीमसेनेन हत इति प्रतीतमेतद्, विनश्यन्तो दृश्यन्तइत्यत्र प्रत्यक्षं प्रमाणं; किं तत्र पूर्ववृत्तोदाहरणेनेति मन्यन्ते॥४५॥
अत्र संप्रतिपत्तिमाह —
शरीरस्थितिहेतुत्वादाहारसधर्माणो हि कामाः ॥ ४६ ॥
आहारसधर्माण इति । आहारतुल्याः, यथाऽऽहारोऽजीर्णादिदोषं जनयन्नपि प्रतिदिने शरीरस्थितये सेव्यते, तथा कामोऽपि, अन्यथा रागोद्रेकादुन्मादादिदोषेण न शरीरस्थितिरिति ॥ ४६ ॥
फलभूताश्च धर्मार्थयोः ॥ ४७ ॥
फलभूताश्च धर्मार्थयोरिति । सुखार्थं धर्मार्थयोः सेवा, तदसेवायां तौ बन्ध्यभूतौ केवलमायासाफलौ स्याताम् , तथा चोक्तम्—
'धर्ममूलः स्मृतः स्वर्गस्तत्रापि परमाः स्त्रियः।
गृहस्थधर्मो दुर्वारो नराणां धर्मयत्नजः ॥
हिताश्चापत्यसंतानैः स्त्रियस्त्विह परत्र च ।
परं सम्प्रत्ययो भोगप्रकर्षार्थाय वै स्त्रियः'॥ इति ॥ ४७ ॥
यद्येवं तर्हि दोषप्रसङ्गः ? इत्यत आह—
बोद्धव्यं तु दोषेष्विव. न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते, न हि मृगाः सन्तीति यवा नोप्यन्त इति वात्स्यायनः ॥ ४८ ॥
बोद्धव्यमिति । अजीर्णादिदोषेष्विव बोद्धव्यम् । प्रतिविधानमिति शेषः । इदमाह—यत्र क्व चन दोषप्राप्तिरवश्यं सेव्यश्च कामस्तं दोष प्रतिविधानेन सेवेतेति, अयं च न्यायो लोकेष्वप्यस्तीति दर्शयति-न हीत्यादिना, तथा चोक्तम्—
'तृणानामिव हि व्यर्थं नृणां जन्म सुखद्विषाम् ।
दोषास्तु परिहर्तव्या इत्याचार्यैः स्थिरीकृतम् ॥ इति ॥ ४८ ॥