भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 34, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 34

२२ सटीक कामसूत्रे [ १ अधिकरणे,

प्रत्यक्षं कामविप्रतिपत्तिमाह—

न कामांश्चरेत् ॥ ४० ॥

न कामानिति ॥ ४० ॥

धर्मार्थयोः प्रधानयोरेवमन्येषां च सतां प्रत्यनीकत्त्वादनर्थज- नसंसर्गमसद्व्यवसायमशौचमनायतिं चैते पुरुषस्य जनयन्ति ॥४१॥

प्रधानयोरिति । ताभ्यां कामोत्पत्तेः, प्रत्यनीकत्वादिति । कामासक्ततया धर्मस्यानाचरणाद्, धर्मविलोमाचरणाच्च, अर्थस्यानर्जनाद्; अर्जितस्य 'मद्यनटनर्तकीनटीपारितोषिकासद्व्ययाद्विरोधवर्ती कामः । सतामिति । ज्ञानवृद्धास्तपोवृद्धाः सन्तः कामासक्तिं त्यजन्ति तेषां च प्रत्यनीकव- र्तिनोऽनर्थजनकनटनर्तकगायनादयस्तैः सम्पर्कं जनयन्ति, असद्व्यव- सायमनोभनव्यवसायं निशीथाभिसरणप्राकारलङ्घनादिकम्, अशौचं= यथोक्तशौचाकरणम्, अनायतिमप्रभावं कामगर्दभ इति ॥ ४१ ॥

तथा प्रमादं लाघवमप्रत्ययमग्राह्यतां च ॥ ४२ ॥

तथा प्रमादं शरीरोपघातं परदारादिगमनादौ; लाघवं तारल्यं सह- सा प्रवर्तनाद्; अप्रत्ययमविश्वासमसत्सङ्गमाद्, अग्राह्यतां हेयतामपू- ज्यवृत्तित्वात् ॥ ४२ ॥

बहवश्च कामवशगाः सगणा एव विनष्टाः श्रूयन्ते ॥ ४३ ॥

बहवोऽनेके कामायत्ता विनष्टा इति सम्बन्धः, सगणा न केवलं- सेवितारः, तत्परिवारा अपीत्यर्थः ॥ ४३ ॥

तथा च दृढीकरणार्थमाख्यानकम्—

यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश ॥ ४४ ॥

दाण्डक्य इति संज्ञा, भोज इति भोजवंशजः, अभिमन्यमानोऽभिग- च्छन्, स हि मृगयां गतो भार्गवकन्यामाश्रमपदे दृष्ट्वा जातरागो रथमा- रोप्य जहार, ततो भार्गवः समित्कुशानादायागत्य तामपश्यन्नभिध्याय; च यथावृत्तं राजानमभिशशाप, ततोऽसौ सबन्धुराष्ट्रः पांसुवर्षेणावष्ट- ब्धो ननाश, तत्स्थानमद्यापि दण्डकारण्यमिति गीयते ॥ ४४ ॥

देवराजश्चाहल्यामतिबलश्च कीचको द्रौपदीं रावणश्च सी- तामपरे चान्ये च बहवो दृश्यन्ते कामवशगा विनष्टा इत्यर्थचि- न्तकाः ॥ ४५ ॥

देवराज इन्द्रोऽहल्यामभिमन्यमान इत्येव, स हि गौतमाश्रमे तद्भा-