भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 33, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 33

२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । २१

काल एवेति। हेयोपादेयाः षट्पदार्था लाभालाभा(१)दयः; तेषु काल- एव प्रवर्तयति, न त्यागोपादानार्थं स्वयं यत्नमातिष्ठेदित्यर्थः ॥ ३६ ॥

लोकप्रसिद्धिमाह—

कालेन बलिरिन्द्रः कृतः, कालेन व्यवरोपितः काल एव पुन- रप्येनं कर्तेति कालकारणिकाः ॥ ३७ ॥

कालेनेति । इन्द्रः कृतः, हेयप्रकृतिकोऽप्यसुरत्वादनर्होऽपि शक्रपदे प्रेरितः स्थापितः । व्यवरोपित इति । परिवर्तमानेन तस्मात्पदादपनीय पाताले नियोजितः । पुनरप्येनं कर्तेति । विपरिवर्तिष्यमाणः प्रेरयन्निन्द्रं करिष्यतीत्यर्थः, तथा चाहुः—

'कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ इति,

कालकारणिका ये कालकारणमधीयते, ऐश्वरकारणिका अप्येवमेव द्रष्टव्याः, तुल्ययोगक्षेमत्वात् ॥ ३७ ॥

अत्र संप्रतिपत्तिमाह—

पुरुषकारपूर्वकत्वात्सर्वप्रवृत्तीनामुपायः प्रत्ययः ॥ ३८ ॥

पुरुषकारपूर्वकत्वादिति । कालादुपायतो वाऽर्थसिद्धौ तदर्थिनो याः प्रवृत्तयस्ताः सर्वाः पुरुषकारपूर्विका दृष्टाः, उभयत्रापि पुरुषकारस्य व्याप्रियमाणत्वात् पुरुषकारश्चोपायं विना नार्थं साधयतीत्युपायः प्र- त्ययः, कारणमर्थसिद्धेरित्यर्थः, यथैव हि पुरुषकारोऽर्थसिद्धौ कालम- पेक्षते तथा हि शक्तिदेशसाधनान्युपायाः, तेषु सर्वेष्वसत्सु कालस्या- किंचित्करत्वाद् असति काले तेषामसामर्थ्यात् तस्माच्छक्तिदेशकाल- साधनानि परस्परापेक्षाणि कार्यस्य साधकानीति नान्य एवोपायः, तत्र शक्त्यादिषु पुरुषकारार्थसिद्धेरनुगुणेषु त्ववश्यमेव सिद्धिः ॥ ३८ ॥

कदा चित्स्याद्यादृच्छिकी कस्य चिदर्थसिद्धिः सोऽपि यादृच्छि- कमेवोपायमाश्रित्य; तदाह—

अवश्यंभाविनोऽप्यर्थस्योपायपूर्वकत्वादेव न निष्कर्मणो भद्र- मस्तीति वात्स्यायनः ॥ ३९ ॥

अवश्यमिति । यतश्चैवं तस्मान्निष्कर्मण उपायानुष्ठानरहितस्य भद्रं- कल्याणम् पूर्वजन्मकृतं कर्म निष्फलं प्रसज्येतेति चेद् ? न-परस्परापेक्ष- मुभयं भवतीति द्रष्टव्यम् । यथोक्तम्—'दैवं मानुषं कर्म लोकं पालयति' एतेन दैवमात्रप्रवादोऽपि प्रत्युक्तः ॥ ३६ ॥


( १ ) जनननिधनकीर्त्यकीर्त्तय आदिपदग्राह्याः ।