कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 40, कुल 353 में से
संदर्भ में पढ़ें| २८ | सटीके कामसूत्रे | [ १ अधिकरणे, |
|---|
अभ्यासप्रयोज्यांश्च चातुःषष्टिकान्योगान्कन्या रहस्येका-
किन्यभ्यसेत् ॥ १४ ॥
अभ्यासेति । अभ्यासेन प्रयोक्तुं ये शक्यन्ते बाडवकभ्रमरकादयः, चातुःषष्टिकांश्चतुःषष्टिभवान्। कन्येति। तदानीमभ्यस्तं यौवने प्रयुज्यते । रहसीति लज्जानिवृत्त्यर्थम् । एकाकिन्याचार्यनिरपेक्षा ॥ १४ ॥
कः पुनश्चैश्वासिक इत्याह—
आचार्यास्तु कन्यानां प्रवृत्तपुरुषसंयोगा सहसंवृद्धा धा-
त्रेयिका, तथाभूता वा निरत्ययसम्भाषणा सखी, सवयाश्च मातृ-
ष्वसा, विस्रब्धा तत्स्थानीया वृद्धदासी, पूर्वसंसृष्टा वा भिक्षुकी,
स्वसा च विश्वाससंप्रयोगात् ॥ १५ ॥
आचार्यास्त्विति । तुशब्दो विशेषणार्थः, पुरुषाणां स्वातन्त्र्यात्सुलभा-
उपदेष्टारः, तत्र प्रवृत्तपुरुषसंयोगा पुरा चानुभूतरसत्वादभिज्ञा धात्रे-
यिका, धात्र्या अपत्यं सा हि सह संप्रवृद्धत्वाद्विश्वास्येत्येकाऽऽचार्या,
तथाभूता चेति । प्रवृत्तपुरुषसंप्रयोगा सखी वा निर्दोषसंभाषणत्वाद्वि-
श्वास्येति द्वितीया, सवयाश्चेति । तुल्यवयाः प्रीतिविश्वासयोरास्पदं;
चशब्दात्तथाभूतेति निवर्तते मातृष्वसा मातृभगिनीति तृतीया, विस्र-
ब्धेति । विश्वस्ता तत्स्थानीया मातृष्वसृतुल्या मातृभगिनीत्वेन गृहीता
वृद्धदासी विदितबहुवृत्तान्तेति चतुर्थी, पूर्वसंसृष्टा पूर्वं यथा सह प्री
तिरुत्पन्ना सा विश्वास्या भिक्षुकी भिक्षणशीला या का चित्सा देशहि-
ण्डनात् कुशलेति पञ्चमी, स्वसा च ज्येष्ठा भगिनी, विश्वाससंप्रयो-
गादिति । यद्वा तत्समक्षं विश्वासात्पुरुषान्तरेण संप्रयुक्ता स्याद्,
अन्यथा स्वसा स्वसारमपि नेर्ष्याया शिक्षयतीति षष्ठी ।
इत्युक्तं ग्रहणं कामसूत्रे तदङ्गविद्यासु च, तासामङ्गविद्यानामयमु-
द्देशः—शास्त्रान्तरे चतुःषष्टिमूलकला उक्ताः—तत्र कर्माश्रया चतुर्विंशतिः—
तद्यथा—१ गीतम् २ नृत्यम् ३ वाद्यम् ४ कौशललिपिज्ज्ञानम् ५ वचनं चोदा-
रम् ६ चित्रविधिः ७ पुस्तकर्म ८ पत्रच्छेद्यम् ९ माल्यविधिः १० गन्धयुक्त्या
स्वाद्यविधानम् ११ रत्नपरीक्षा १२ सीवनम् १३ रङ्गपरिज्ञानम् १४ उपक-
रणक्रिया १५ मानविधिः १६ आजीवज्ञानम् १७ तिर्यग्योनिकिकित्सि-
तम् १८ मायाकृतपाषण्डसमयज्ञानम् १९ क्रीडाकौशलम् २० लोकज्ञानम्
२१ वैचक्षण्यम् २२ संवाहनम् २३ शरीरसंस्कारः २४ विशेषकौशलं चेति ।
द्यूताश्रया विंशतिः—तत्र निर्जीवाः पञ्चदश, तद्यथा—२५ आयुःप्राप्तिः
२६ अक्षविधानम् २७ रूपसंख्या २८ क्रियामार्गणम् २९ बीजग्रहणम्