भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 41, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 41

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २९

३० नयज्ञानम्, ३१ करणादानम्, ३२ चित्राचित्रविधिः ३३ गूढराशिः ३४ तुल्यामिहारः ३५ क्षिप्रग्रहणम् ३६ अनुप्रातिलेखस्मृतिः ३७ अग्निक्रमः ३८ छलच्छ्यामोहनम् ३९ ग्रहदानं चेति । सजीवाः पञ्च, तद्यथा—४० उपस्थानविधिः ४१ युद्धम्, ४२ रुतम् ४३ गतम्, ४४ वृत्तं चेति ।

शयनोपचारिकाः षोडश, तद्यथा-४५ पुरुषस्य भावग्रहणम् , ४६ स्वरागप्रकाशनम् ४७ प्रत्यङ्गदानम्, ४८ नखदन्तयोर्विचारौ ४९ नीवीसंसनम् ५० गुह्यस्य संस्पर्शनानुलोम्यम् ५१ परमार्थकौशलम् ५२ हर्षणम् ५३ समानार्थताकृतार्थता ५४ अनुप्रोत्साहनम् ५५ मृदुक्रोधप्रवर्तनम् ५६ सम्यक्क्रोधनिवर्तनम् ५७ क्रुद्धप्रसादनम् ५८ सुप्तपरित्यागः ५९ चरमस्वापविधिः ६० गुह्यगूहनमिति ।

चतस्र उत्तरकलाः, तद्यथा-६१ साश्रुपातं रमणाय शापदानम् ६२ स्वशपथक्रिया ६३ प्रस्थितानुगमनम् ६४ पुनः पुनर्निरीक्षणं चेति चतुःषष्टिर्मूलकलाः। आस्वेव निविष्टानामवान्तरकलानामष्टादशाधिकानि पञ्चशतान्युक्तानि, तत्र कर्मद्यूताश्रयाः प्रायश आबालं गच्छन्ति, ता एवान्यथा विभज्य चतुःषष्टिरुक्ता, यास्तु शयनोपचारिका उत्तरकलाश्च, ताः प्रायशस्तन्त्रस्याङ्गतां प्रतिपद्यन्त इति पाञ्चालिक्यामेव चतुःषष्ट्यामवान्तरकला वेदितव्याः, ताश्च यथाप्रस्तावं वक्ष्यन्ते ।

तन्त्रावापौपयिकीं चतुःषष्टिमाह—

गीतं^१, वाद्यं^२, नृत्यं^३, आलेख्यम्^४, विशेषकच्छेद्यम्^५, तण्डुलकुसुमवलिविकाराः^६, पुष्पास्तरणम्^७, दशनवसनाङ्गरागः^८, मणिभूमिकाम^९, शयनरचनम्^१०, उदकवाद्यम्^११, उदकाघातः^१२, चित्राश्च योगाः^१३, माल्यग्रथनविकल्पाः^१४, शेखरकापीडयोजनम्^१५, नेपथ्यप्रयोगाः^१६, कर्णपत्रभङ्गाः^१७, गन्धयुक्तिः^१८, भूषणयोजनम्^१९, ऐन्द्रजालाः^२०, कौचुमाराश्च योगाः^२१, हस्तलाघवम्^२२, विचित्रशाकयूषभक्ष्यविकारक्रिया^२३, पानकरसरागासवयोजनं^२४, सूचीवानकर्माणि^२५, सूत्रक्रीडा^२६, वीणाडमरुकवाद्यानि^२७, प्रहेलिका^२८, प्रतिमाला^२९, दुर्वाचकयोगाः^३०, पुस्तकवाचनम्^३१, नाटकाख्यायिकादर्शनम्^३२, काव्यसमस्यापूरणम्^३३, पट्टिकावेत्रवानविकल्पाः^३४, तक्षककर्माणि^३५, तक्षणम्^३६, वास्तुविद्या^३७, रूप्यरत्नपरीक्षा^३८, धातुवादः^३९, मणिरागाकरज्ञानम्^४०, वृक्षायुर्वेदद्योगाः^४१, मेषकुक्कुटलावकयुद्धविधिः^४२, शुकसारिकाप्रलापनम्^४३, उत्साधने सं-