कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 49, कुल 353 में से
संदर्भ में पढ़ें४ अध्याये ] नागरिकवृत्तप्रकरणम् । ३९
यात्रावशाद्वेति । यत्र वा स्याद्यापनं शरीरस्थितिर्ग्रामे तत्रावस्थानं, तन्निबन्धनत्वादितरवृत्तेः ॥ ३ ॥
तत्रापि गृहमन्तरेण न संभवतीत्याह—
तत्र भवनमासन्नोदकं वृक्षवाटिकावद्विभक्तकर्मकक्षं द्विवासगृहं कारयेत् ॥ ४ ॥
तत्रेति । नगरादीनामन्यतमे भवनं गृहं कारयेदिति संबन्धः, आसन्नोदकं नदीवाप्यादिसमीपे जलमकर्दितं क्रीडाऽङ्गं च, वृक्षवाटिकावदिति । यस्यां दिशि जलं तस्यां वृक्षवाटिकया गृहोद्यानेन युक्तम्, विभक्तकर्मकक्षमिति । कर्मार्थं कक्षा प्रकोष्ठकानि ता विभक्ता यस्य, उच्चावचे हि गृहकर्मणि क्रियमाणे गृहं भग्नं स्याद्, द्विवासगृहमिति । द्विधा वासगृहमिति । शयनार्थेन रत्यर्थेन च युक्तम्, एतावद्वृत्तोपयोगिगृहविधानं, शेषं वास्तुविद्यायां द्रष्टव्यम् ॥ ४ ॥
तस्मिन्कारित आधेयानां न्यासमाह—
बाह्ये च वासगृहं सुश्लक्ष्णमुभयोपधानं मध्ये विनतं शुक्लोत्तरच्छदं शयनीयं स्यात्, प्रतिशय्यिका च ॥ ५ ॥
बाह्य इति । आभ्यन्तरं वासगृहमन्तर्दाराणां शयनार्थम्, बाह्ये च प्रकोष्ठे कृते रत्यर्थं शयनीयं स्यात्, सुश्लक्ष्णं खट्वाऽऽश्रयप्रतिपादिकाऽऽस्तरणतूलिकाऽऽदिभिः सुरमितं च, उभयोपधानं शिरश्चरणभागयोर्न्यस्तोपोधानम्, मध्ये विनतमाक्रान्तम्, मृदुकमित्यर्थः, शुक्लोत्तरच्छदमिति । शुक्लस्य प्रच्छदपटस्य प्रत्यहं द्वित्रैर्वा दिवसैः, प्रक्षालनीयत्वादित्यवशशं तदुपरि देयम् । प्रतिशय्यिका चेति । तस्य समीपे संप्रयोगार्थं तत्प्रतिच्छन्दिका किञ्चिन्न्यूनोत्सेधा यस्यानारुह्यिका स्यादित्येवं विधिरयमाचारवतां, वेश्याकामिमस्तु शयनीयपदे उभयं निर्वर्तयन्ति, न तेषां प्रतिशय्यिका, तथा चोक्तम्—
‘संप्रयुज्येत यत्रस्थो नायकः प्रियया सह । न तत्रोपहते विद्वाञ्छयीत शयने शुचिः’ इति ॥ ५ ॥
तस्य शिरोभागे कूर्चस्थानम् ॥ ६ ॥
तस्येति । शयनीयस्य पश्चात्पार्श्वभागानां निकृष्टत्वाच्छिरोभाग एव कूर्चासनस्य देवताऽनुस्मरणार्थस्य स्थापनं स्याद्, यथोक्तम्—
‘शयनीयशिरोभागे न्यस्तकूर्चे शुचिः शुभे । कृतेष्टदेवतायोगो यायाच्छयनमात्मवान्’ ॥ ६ ॥