भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 58, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 58
४८सटीके कामसूत्रे[ १ अधिकरणे,

यमाणां शरीरस्थितिं, तत्रैवोद्यानेऽनुभूय; कुक्कुटलावकमेषयुद्धद्यूतैः सजीवनिर्जीवैर्नटादिप्रेक्षाभिरनुकूलैश्च चेष्टितैर्यथास्वं वेश्याप्रतिबद्धैः केलिविशेषेण दिवसं गमयित्वा, अपराह्णे प्रशान्तवेलायाम्, तथैवेति । स्वलंकृतास्तुरगाधिरूढाः सह वेश्याभिः परिचारकानुगता इति । विशेषोऽत्र गृहीततदुद्यानोपभोगचिन्हा इति 'तदुद्यानमुपभुक्तमिति' यानि सूचयन्ति कुसुमस्तवककिसलयादीनि तानि गृहीतानि शिरःकर्णकण्ठेषु कृतानि यैरिति, प्रत्याव्रजेयुः=प्रतीपमागच्छेयुः ॥ ४० ॥

एतेन रचितोद्ग्राहोदकानां ग्रीष्मे जलक्रीडागमनं व्याख्यातम् ॥४१॥

एतेनेति । उद्यानगमनविधिना, तत्रापि गमनं दैवसिकयात्राऽनुभवनमागमनं च तुल्यं, किं तु गृहीततदुद्यानोपभोगचिन्हा इति; तेन तत्रैव प्रायशोऽन्तर्भूतमिति नैमित्तिकवर्गे पृथङ् नोक्तं, योऽत्र विशेषस्तमाह-रचितोद्ग्राहोदकानामिति । उद्ग्राहमविद्यमानकुल्याऽऽद्युदकं यस्य तोयस्थानस्य तदुद्ग्राहोदकं वापीदीर्घिकाऽऽदि, रचितमिति, स्वार्थिकण्यन्ताद्धेतुमण्ण्यन्तात् क्तप्रत्यये रूपम्; रच 'प्रतियत्ने' इत्यस्यादन्तत्वाच्च वृद्धिः तीर्थविन्यासादिभिः रचितं कारितमुद्ग्राहोदकं यैर्नागरकैरिति, ग्रीष्म इति । अन्यदा तु पुनर्निमज्जनोदकवाद्यविधानादिप्रकारायाः क्रीडाया असंभवत् ॥ ४१ ॥

समस्याः, क्रीडा, आह—

यक्षरात्रिः, कौमुदीजागरः, सुवसन्तकः, सहकारभञ्जिका, ऽभ्यूषखादिका, बिसखादिका, नवपत्रिका, उदकक्ष्वेडिका, पाञ्चालाऽनुयानम्, एकशाल्मली, (१)यवचतुर्थी, आलोलचतुर्थी, मदनोत्सवो, दमनभञ्जिका, होलाका, अशोकोत्तंसिका, पुष्पावचायिका, चूतलतिका, इक्षुभञ्जिका, कदम्बयुद्धानि, तास्ताश्च महिमान्यो देश्याश्च क्रीडा जनेभ्यो विशिष्टमाचरेयुरिति संभूय क्रीडाः ॥ ४२ ॥

यक्षरात्रिरिति । सुखरा(२)त्रिर्यक्षाणां तत्र संनिधानात्; तत्र प्रायशो लोकस्य द्यूतक्रीडा, कौमुदीजागर इति । आश्वयुज्यां हि पौर्णमास्यां कौमुद्या ज्योत्स्नायाः प्रकर्षेण प्रवृत्तेः, तत्र दोलाद्यूतप्रायाः क्रीडाः, सुवसन्तक इति । सुव(३)सन्तो मदनोत्सवः, तत्र नृत्यगीतवाद्यप्रायाः क्रीडाः, एता महिमान्यः क्रीडाः, देश्या आह—सहकारभञ्जि-


(१,) स्पृहयन्तीवृत्तम् इति क० पु० अधिकम् ।
(२,) कार्त्तिकामावस्यारात्रिः ।
(३,) माघशुक्लपञ्चमीदिनम् ।