भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 64, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 64

५४ सटीक कामसूत्रे [ १ अधिकरणे,

श्रेष्ठा, द्वितीयाऽधमवर्णा न्यूना, तस्या अपि न्यूना पुनर्भूः, स्वीकारेऽप्यन्यपूर्वत्वात्, अस्या वृत्तं भार्याऽधिकारिके वक्ष्यति, या त्वक्षतयोनिः पुनरुह्यते सा कन्या एव, यथोक्तम् —

'पुनरक्षतयोनित्वादुह्यते या यथाविधि ।
सा पुनर्भूसूतस्तस्यां पौनर्भव उदाहृतः' ।

ततोऽपि वेश्या न्यूना सामान्यत्वात् ॥ ४ ॥

अन्यस्मात्कारणाद्विमर्शमाह —

अन्यकारणवशात्परपरिगृहीताऽपि पाक्षिकी चतुर्थीति गोणिकापुत्रः ॥ ५ ॥

अन्यकारणवशादिति । पुत्रात्सुखाच्च यदन्यत्कारणं तद्वशात् , पाक्षिकीति । यदा कारणान्तरं तदा तस्मिन्पक्षे भवतीति पाक्षिकी, अन्यदा तु नैवेति बाभ्रव्यमतमनुसृत्याह—गोणिकापुत्रोऽपि पारदारिकं पृथक् कामसूत्रं प्रोवाचेत्युक्तम् ॥ ५ ॥

तत्र विषयशुद्ध्यर्थमाह—

स यदा मन्यते स्वैरिणीयमन्यतोऽपि बहुशो व्यवसितचारित्रा तस्यां वेश्यायामिव गमनमुत्तमवर्णिन्यामपि न धर्मपीडां करिष्यति ॥ ६ ॥

स इति । नायकः, मन्यतेऽधिगच्छेदित्स्वैरिणीयम् , स्वैरिणी=स्वतन्त्रा, तदेव दर्शयति—अन्यतोऽपीति । यथा मामभियुञ्जाना शीलं खण्डयति, तथाऽन्येष्वपि बहून् वारान् , व्यवसितचारित्रा=खण्डितशीला, ततश्च वेश्यातुल्या, वेश्यायामिव, 'पुनर्भूषामिव' इत्याम्नायः पाठः, यत एकस्माद् द्वितीयं प्राप्ता पुनर्भूः, सा च न बहुशः खण्डितचारित्रेति न समानो दृष्टान्तः, उत्तमवर्णिन्यामिति । किमसवर्णाधमवर्णयोरेवं वर्ण्यते ? तत्रापि न दोषः, यथोक्तम्—

'जीवकार्मुकवस्त्रावीन् दद्यादात्मविशुद्धये ।
चतुर्णामपि वर्णानां नारीर्हत्वाऽव्यवस्थिताः ॥' इति ।

अस्यार्थः—ब्राह्मणीं स्वच्छन्दवृत्तिं हत्वा जीवञ्चर्मपुटं ब्राह्मणाय दद्यात्, क्षत्रियां कार्मुकम्, वैश्यां वस्त्रम्, शूद्रामविमिति, यत्र हिंसाऽपि परिफल्गुदोषा तत्राभिगमनं न कस्यापि धर्मोपघाति स्यादित्याह—गमनमपि कारणवशात् क्रियमाणं न धर्मपीडां करिष्यति, अधर्मस्याभावात् ॥ ६ ॥

पुनर्भूरियं कथमित्याह—

पुनर्भूरियमन्यपूर्वाऽवरुद्धा नात्र शङ्काऽस्ति ॥ ७ ॥

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित) · पृष्ठ 64, कुल 353 में से · BharatKosha