भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 65, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 65

५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ५५

अन्यः पूर्वो यस्याः सेयं क्षतयोनिरन्येनावरुद्धा सङ्गृहीता नात्र शङ्काऽस्ति, गमनेनाधर्मः स्यादिति, अनुत्तमवर्णिनीत्वात्, तत्र यद्यपि धर्मस्य पोडा नास्ति, आशङ्का च, तयाऽपि सुखं निमित्तीकृत्य; न प्रवर्त्तते, निषिद्धत्वात्, किन्तु वक्ष्यमाणमेव कारणं, तेन विषयविशुद्ध्यर्थमिदमादावुक्तम्, यथोक्तम्—

'विशुद्धिं विषयस्यादौ कारणानि च तत्त्वतः ।
प्रसमीक्ष्य प्रवर्त्तेत परस्त्रीषु न भावतः ॥' इति ॥ ७ ॥

कारणान्याह —

पतिं वा महान्तमीश्वरमस्मदमित्रसंसृष्टमियमवगृह्य; प्रभुत्वेन चरति, सा मया संसृष्टा स्नेहादेनं व्यावर्तयिष्यति ॥ ८ ॥

पतिं वा महान्तमिति । अस्मदमित्रेण जातसख्यं पतिं, तस्य शत्रोर्महत्त्वादैश्वर्याच्चापकारसमर्थम्, इयमिति । स्वैरिणी==पुनर्भूः, अवगृह्य; प्रभुत्वेन चरति=अवष्टभ्य स्वामिनं व्यवहरति, सा मया संसृष्टा; स्नेहात्संयोगात्प्रवृद्धस्नेहात्तस्मादेनं व्यावर्तयिष्यति, अस्मदमित्रादपकर्तुकामात् पतिं प्रभवन्ती निवर्त्तयिष्यति, ततश्च विशिष्टभावो मे भविष्यति; अन्यथा महान्तमीश्वरमाश्रितो मामेवाकृतपुरुषार्थं हनिष्यति ॥ ८ ॥

विरसं वा मयि शक्तमपकर्तुकामं च प्रकृतिमापादयिष्यति ॥९॥

विरसं वेति । कार्यवशान्मयि विरक्तं पतिं शक्तमप्रतिविधेयम्, अपकर्तुकामं “कदाऽहमस्यापकरिष्यामि” इति बद्धानुशयं, प्रकृतिमापादयिष्यति, प्रभवन्ती मया संसृष्टा पूर्वावस्थं स्वभावं नेष्यति ॥ ९ ॥

तया वा मित्रीकृतेन मित्रकार्यममित्रप्रतीघातमन्यद्वा दुष्प्रतिपादकं कार्यं साधयिष्यामि ॥ १० ॥

तया वेति । प्रभवन्त्या मया संसृष्ट्या मित्रीकृतेन तस्याः पत्या मित्रकार्यं तत्साध्यम्, मित्रकार्ये हि प्राणानपि त्यजेन्नरकमपि विशेद्, अमित्रप्रतीघातं स्वशरीरत्राणार्थम्, अन्यद्वा स्वकीयं दुष्प्रतिपादकं दुःसाधकं साधयिष्यामि ॥ १० ॥

संसृष्टे वाऽनया हत्वाऽस्याः पतिमस्मद्भाव्यं तदैश्वर्यमेवमधिगमिष्यामि ॥ ११ ॥

संसृष्टे वाऽनयेति । संप्रयोगादाहितस्नेहया कृतसंधित्को हत्वाऽस्याः पतिं द्विषन्तं तूष्णीं दण्डेनास्मद्भाव्यमैश्वर्यमपि तदा भाव्यम्, केवलमस्मत्कुलं हत्वाऽपि मत्तोऽपि वा हठादाच्छिद्यानेन प्रसह्य भुज्यते तत्प्राप्स्यामि, ततोऽस्याततायित्वाद्यापादनमपि नाधर्माय ॥ ११ ॥