भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 66, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 66

५६ सटीक कामसूत्रे [ १ अधिकरणे,

निरत्ययं वाऽस्या गमनमर्थानुबद्धम्, अहं च निःसारत्वा- त्क्षीणवृत्त्युपायः सोऽहमनेनोपायेन तद्धनमतिमहदकृच्छ्रादधिगमि- ष्यामि ॥ १२ ॥

निरत्ययं रक्षाऽक्षमावान्निर्दोषम्, अन्यत्राप्येतद् द्रव्यम्, अर्थानुबद्धम्, आढ्यत्वादस्याः, अहं च निःसारत्वाच्छिद्रव्यत्वात्, क्षीणवृत्त्युपायइति । वृत्तिर्जीविका तदुपायः कृत्यादिः स क्षीणो यस्येति, सोऽहं कुटुम्बभरणासमर्थोऽनेनोपायेनाभिगमनलक्षणेन तद्धनमतिमहद् धर्मादिसाधनमधिगमिष्यामि, स्वल्पाधिगमे तु नाधिगच्छेदिति मन्यते, अकृच्छ्रादिति । तया स्नेहाद्दीयमानम् अन्यथा दृष्टाद्दूष्टदोषसाधनं स्यात्, तस्मात्कुटुम्बकार्थमकार्यमपि कार्यं स्यात्, तथा चोक्तम्—

'माता वृद्धा पिता चैव साध्वी भार्या सुतः शिशुः ।
अप्यकार्यं शतं कृत्वा भर्तव्या मनुरब्रवीत्' ॥ १२ ॥

मर्मज्ञा वा मयि दृढमभिकामा सा मामानिच्छन्तं दोषविख्या-
पनेन दूषयिष्यति ॥ १३ ॥

मयि दृढमभिकामेति । आभिमुख्येन कामयत इत्यभिकामा, दृढंमयि जातरागेत्यर्थः, मामनिच्छन्तं स्वतोऽन्यस्माद्वा दोषाद् दोषविषयख्यापनेन मर्मज्ञत्वाल्लोके दूषयिष्यति 'राज्यकामुकोऽयमि' ति येन मे विनाशः स्याद्, 'राजाऽपथ्यकारी' इति ॥ १३ ॥

असद्भूतं वा दोषं श्रद्धेयं दुष्परिहरं मयि क्षेप्स्यति, येन
मे विनाशः स्यात् ॥ १४ ॥

असद्भूतं वेति । मया संप्रयुयुक्षुरयमिति मिथ्यैव दोषमुत्थाप्य; श्रद्धेयं कृतकमदनलेखेन जातप्रत्ययम्, एवं च दुष्परिहरं मयि क्षेप्स्यति समारोपयिष्यति, येन मे विनाशः स्यात् पारदारिक इति ॥ १४ ॥

आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयि-
ष्यति, स्व यं वा तैः सह संसृज्येत ॥ १५ ॥

आयतीति । आयतिमन्तं प्रभावयुक्तं पतिं वश्यं यथोक्तकारिणं, मत्तोविभिद्य मत्तोऽनिच्छतोऽपि मित्रीभूतं विश्लेष्य, द्विषतः संग्राहयिष्यत्यस्मच्छत्रून् मैत्रीपूर्वं स्वीकारयिष्यति, ततश्च संगृहीतप्रभावा मां हनिष्यति, स्वयं वा तैः सह संसृज्येत समर्थैरस्मदुपघातार्थम् ॥ १५ ॥

मदवरोधानां वा दूषयिता पतिरस्यास्तदस्याहमपि
दारानेव दूषयन् प्रतिकरिष्यामि ॥ १६ ॥

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित) · पृष्ठ 66, कुल 353 में से · BharatKosha