कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 70, कुल 353 में से
संदर्भ में पढ़ें६० सटीके कामसूत्रे [ १ अधिकरणे,
चार्याणां शिष्यभार्या भ्रातृभार्या, इत्यादयोऽपि धर्मवैलोम्यात्, सखिदारा मित्रभार्या, अधर्मद्रोहादिभयात्, तथा चोक्तम्—
'रेतःसेकः स्वयोनिषु कुमारीष्वन्त्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः' ॥
श्रोत्रियदारा ज्वलदग्निप्रख्याः, धर्मवैलोम्याद्, राजदाराश्च चतुराश्रमगुरुभार्याः, दृष्टादृष्टविरोधात्, इत्येतदाचार्याणां मतमनुक्तमपि ज्ञेयम्, अत्र च यथोक्तव्यतिरेकेण परपरिगृहीताः सर्वा एवागम्याः स्युरिति ॥ ३२॥
बाभ्रव्यमतमाह—
दृष्टपञ्चपुरुषा नागम्या का चिदस्तीति बाभ्रवीयाः ॥ ३३ ॥
स्वपतिव्यतिरेकेण दृष्टाः पञ्च पुरुषाः पतित्वेन यया सा स्वैरिणी कारणवशात्सप्तवरेव गम्या, तथा च पञ्चातीता बन्धकीति पराशरः, एकद्व्यादिदर्शने तु सत्स्वपि कारणेषु नैवेत्यर्थोक्तम्, द्रौपदी तु युधिष्ठिरादीनां स्वपतित्वादन्येषामगम्या, कथमेका सत्यनेकपतिरिति चैतिहासिकाः प्रष्टव्याः, बाभ्रवीया इति । बाभ्रव्यशिष्याः, बाभ्रव्यमतानुसारिणएवमाहुः ॥ ३३ ॥
तत्रापि गोणिकापुत्रो विशिष्यः वक्तव्यमित्याह—
संबन्धिसखिश्रोत्रियराजदारवर्जमिति गोणिकापुत्रः ॥ ३४ ॥
दृष्टपञ्चपुरुषा नागम्येति वर्तते, अयमभिप्रायः–सम्बन्धिभार्या स्वैरिण्यपि विद्यायोनिसम्बन्धेनान्तरेण सम्बन्धेन सम्बद्धत्वादगम्या, सम्बन्धिनी तु बाह्येनेति गम्यैव, सखिभार्याऽप्यन्यस्य गम्या, न नायकस्य, सखी त्वस्य भार्यावयस्या स्वतो मैत्रीव्यवहारस्याप्रस्तुतत्वाद् गम्यैव, श्रोत्रियस्य क्रियावत्त्वाद् दाराः खण्डितशीला अपि दृष्टादृष्टविरोधादगम्याः ॥ ३४ ॥
सहायविमर्शस्त्रिधा–स्नेहतो गुणतो जातितश्च। तत्राद्यमधिकृत्याह—
सहपांसुक्रीडितमुपकारसम्बद्धं समानशीलव्यसनं सहाध्यायिनं यश्चास्य मर्माणि रहस्यानि च विद्याद् यस्य चायं विद्याद्धात्रपत्यं सहसंवृद्धं मित्रम् ॥ ३५ ॥
मिद्यति स्निह्यतीति मित्रं नवप्रकारम्, तत्र सहपांसुक्रीडितमेकत्रानुभूतबाल्यत्वात्स्निह्यति, उपकारसम्बद्धमर्थेन जीवितरक्षया चोपकृतत्वान्मैत्र्या वर्तते, समानशीलव्यसनं, समानं शीलं व्यसनञ्च दैवम्मानुषं यस्य तत्तुल्यगुणदोषत्वात् सख्यमाधत्ते, सहाध्यायी एकत्र कृताध्ययनत्वान्मैत्रीमनुवर्तते, यश्चास्य नायकस्य मर्माण्यकार्याणि यश्च रहसि