भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 76, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 76

६६ सटीके कामसूत्रे [ २ अधिकरणे,

तद्वदिति। यथा भावप्रमाणाभ्यां तथा कालतो नव रतानि, भावोत्पत्तिनिमित्तस्य कालस्य शीघ्रादिभेदेन त्रैविध्याद् यदाह-“शीघ्रमध्यचिरकालाः” इति, शीघ्रेण कालेन रतिर्यस्य, तथा मध्यचिरकालाभ्याम्, नायका इति। नायकश्च नायिका चेति 'पुमान्स्त्रिया' । १ । २ । ७ । इत्येकशेषनिर्देशः ॥ १७ ॥

तत्र स्त्रियां विवादः ॥ १८ ॥

तत्रेति। नायकयोः स्त्रीपुंसयोः, स्त्रियां विवादः, स्त्रीविषये मतभेद इत्यर्थः ॥ १८ ॥

तत्रौद्दालकेर्मतम्—

न स्त्री पुरुषवदेव भावमधिगच्छति ॥ १९ ॥

यादृशं सुखं विसृष्टिप्रभवं पुरुषोऽनुभवति तादृशमेव न स्त्री, शुक्राभावात् ॥ १९ ॥

किमर्थं तर्हि पुरुषेण संप्रयुज्यत इत्याह—

सातत्याच्चस्याः पुरुषेण कण्डूतिरपनुद्यते ॥ २० ॥

सम्बाधकस्य स्वभावतः कृमिजुष्टत्वात्तत्र निसर्गसिद्धा कण्डूतिः, तथा चोक्तम्—

रक्तजाः कृमयः सूक्ष्मा मृदुमध्योग्रशक्तयः ।
स्मरसद्मसु कण्डूर्ति जनयन्ति यथाबलम् ॥

सा त्वस्याः पुरुषेणापनीयते, सातत्यादिति। अनवरतसाधनव्यापारेणेत्यर्थः, अन्यथा तत्प्रतिबन्धे कण्ड्वा उत्कोप एव स्यात् ॥ २० ॥

अपरद्रव्येणापि सा स्वयमपनयतीति चेदाह—

सा पुनराभिमानिकेन सुखेन संसृष्टा रसान्तरं जनयति ॥ २१ ॥

सेति। सा च कण्डूतिरपनीयमाना शलाकिकया कर्णकण्डूतिरिव, आभिमानिकेनेति। आभिमानिकं चुम्बनादिसुखं वक्ष्य(१)ति, तेन संसृष्टाऽनुगता, रसान्तरमिति। सुखान्तरं जनयति, यत्कण्डूत्यपनोदसुखं यच्च चुम्बनादिसुखं तयोः संसृष्टयो रसान्तरत्वात् ॥ २१ ॥

तस्मिन्सुखबुद्धिरस्याः ॥ २२ ॥

तस्मिन् रसान्तरे सुखबुद्धिरस्याः सुखिताऽस्मीति, कण्डूतिप्रतीकारमात्रे तु न सुखबुद्धिः, तस्याप्राधान्यात्, ततः 'स्पर्शविशेषविषयाऽऽ-


(१) “आलिङ्गनचुम्बननखच्छेद्ये”त्यादिनाऽग्रिमेणैतदधिकरणस्थद्वितीयाध्यायगतेन बाभ्रव्यमतीयेन सूत्रेण।