भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 1, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 1

प्रास्ताविकम्

माधवकृत-शंकरविजय-भोजकृतसरस्वतीकण्ठाभरण-क्षेमेन्द्रकृतौचित्यविचारचर्चा- सुवृत्ततिलक-कविकण्ठाभरण-सोमदेवकृतयशस्तिलकचम्पू-शार्ङ्गधरपद्धति-आरोह- कभगदत्तजह्लणसंगृहीतसूक्तिमुक्तावलि-हरिकविसंगृहीतसुभाषितहारावलि-वल्लभदे- वसङ्गृहीतसुभाषितावलि-राजशेखरकृतबालरामायण-बालभारत-कर्पूरमञ्जरी-विद्ध- शालभञ्जिकादिसंस्कृतग्रन्थेषु, तथा विल्सनपण्डितकृत‘हिन्दूथिएटर’-भट्टमोक्षमूलर- कृत ‘इण्डिया, व्हाट् इट् कॅन् टीच् अस्’-वेबरपण्डितकृत ‘हिस्टरी ऑफ् इण्डियन् संस्कृत लिटरेचर’-अनेकपण्डितसंकलित ‘इण्डियन् ॲण्टिक्वेरी’-डॉक्टरपीटर्सन- रिपोर्ट-डॉक्टरभाण्डारकररिपोर्टाद्याङ्ग्लभाषानिबद्धेषु ग्रन्थेषु च लिखितं राज- शेखरविषयं सम्यग्विलोक्य विस्तारभिया चात्र तत्सर्वं परित्यज्य तन्निर्गलितार्थ एव संक्षेपेण लिख्यते.

— राजशेखरस्य समयनिश्चिताङ्गभूतानि —

तत्र शंकरविजये ‘तत्रोदितं बन्धन राजशेखर’ इति द्वितीयसर्गप्रारम्भे, ‘एवमेनमतिसंप्लवचरित्रं सेवमानजनदैन्यलवित्रम् । केरलक्षितिपतिर्नहि दिदृक्षुः प्राहिणोत्सचिवमावृतभिक्षुः ॥’ ‘तेन पृष्टमदात्त क्षितिपालः स्वेन सृष्टमथ शास्त्रत्रकालम् । हाटकायुतममर्पणपूर्वं नाटकत्रयमयोचयदूर्ध्वम् ॥’ इति पञ्चमसर्गे, ‘कविताकुशलोऽथ केरलक्ष्माकमनः कश्चन राजशेखराख्यः । मुनिवर्यममुं मुदा वितेने निजकोटीरनिधृष्टपल्लवाग्रम् ॥ प्रथते त्रिषु नाटयत्रयी खेत्यमुना संयमिना ततो नियुक्तः’ इत्यादिचतुर्दशसर्गे च राजशेखरकथा वर्तते, नाटकत्रयनामानि तु शंकरविजये न सन्ति एतेन नाटकत्रयकर्ता केरलक्षितिपालो राजशेखरः सप्तमशतकप्रारम्भभ- वद्भूतशंकराचार्यसमकालीन आसीदिति स्फुटमेव प्रतीयते किं तु भोजप्रबन्धादिव- च्छंकरविजयस्यापि समयादिनिर्णयविषये विद्वांसानैतिहासिकत्वहृदयम् न चास्य शंकरविजयस्य कर्ता पण्डितशिरोमणिः सायनमाधवाचार्यः, अयं च कश्चिदन्य एव नवरत्नातिशठापर्यायो माधव इति भाति

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 1, कुल 172 में से · BharatKosha