भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 2, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 2

राजशेखरकृतेषु बालरामायणादिषु महेन्द्रपालस्य वर्णनमस्ति. तत्र 'इण्डियन ॲण्टिक्वेरी'नामकमासिकपुस्तकस्य पञ्चदशे भागे ११२ मिते पृष्ठे 'ॐ स्वस्ति श्रीम- होदयसमावासितानेकगो हस्त्यश्वरथपत्तिसंपन्नस्कन्धावारात्--परमभगवतीभक्तो महाराजश्रीभोजदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीचन्द्रभट्टारिकादेव्यामुत्पन्नः परम- भगवतीभक्तो महाराजधीमहेन्द्रपालदेवः श्रावस्तीभुक्तौ श्रावस्तीमण्डलान्तःपातिवा- लयिकाविषयसंबद्धपानीयकग्रामसमुपगतान्सर्वानेव यथास्थाननियुक्तान्रतिवासिनश्च समाज्ञापयति-- संवत्सर १०० ५० ५ माघशुदि १० निबद्धम्' इति महेन्द्रपालस्य दानपत्रं मुद्रितमस्ति. अत्र पृथक्पृथग्लिखितानाम- ङ्कानां संकलने जाता १५५ मिता संख्या. अयमेव श्रीहर्षवर्धनसंवत्सरः, तत्र च ६०६ वर्षेषु योजितेषु जातः ७६१ मितः ख्रिस्तसंवत्सरः. 'अयमेव पूर्वलिखितदान- पत्रसमयः' इति फ्लीटपण्डितः. एतदनुरोधेनैव सुभाषितावल्युपोद्घाते राजशेखर- समयो लिखितः; किं त्वत्र श्रीहर्षवर्धनसंवत्सरादिकल्पनं युक्तिरहितमिति ७६१ मित- ख्रिस्तसंवत्सरे राजशेखरो बभूवेत्यपि संदिग्धमेव. दानपत्रं त्वेतद्राजशेखरवर्णित- महेन्द्रपालस्यैवास्ति, यतोऽस्मिन्दानपत्रे महोदयस्य नाम वर्तते. राजशेखरकृतबाल- भारतप्रस्तावनायां च 'कथमेते महोदयमहानगरलीलावतंसा विद्वांसः सामाजिकाः' इत्याद्यस्ति. महोदयमिति कान्यकुब्ज (कनौज)स्य नामान्तरम्, कान्यकुब्जं महो- दयम्, 'कन्याकुब्जं गाधिपुरं कौशं कुशस्थलं च तत्' इति हैमनाममालायाम्, 'महोदयः कान्यकुब्जे' इति विश्वप्रकाशमेदिनीकोषयोश्च वर्तते. बालरामायणे दश- मेऽङ्केऽपि 'लक्ष्मणः--इदं पुनस्ततोऽपि मन्दाकिनीपरिक्षिप्तं महोदयं नाम नगरं दृश्यते । रामः--शश्वत्सुधामवसुधामहितं द्विषद्भिर्नो गाहितं भवति गाधिपुरं पुर- स्तात् । वैदेहि देहि शफरीसदृशं दृशं तदस्मिन्नितम्बिनि नितम्बवदुत्सुसिन्धौ ॥ ८८ ॥ इदं द्वयं सर्वमदापवित्रं परस्परालंकरणैकहेतु । पुरं च हे जानकि, कान्यकुब्जं सरिश्च गौरीपतिमौलिमाला ॥ ८९ ॥' इत्याद्यस्ति. एतेन राजशेखरकविः कान्य- कुब्जमहीपतेर्महेन्द्रपालस्य सभायामासीदिति ज्ञायते. बाणभट्ट-भवभूति-वाक्पति- राज-श्रीहर्षादयोऽन्येऽपि बहवो महाकवयः कान्यकुब्जनरपतीनां हर्षवर्धनयशो- धर्मप्रभृतीनां सभासु स्वस्वसमय आसन्. राजशेखरो दशमे शतके बभूवेति भाण्डारकरपण्डितः, एवमेव वेबरपण्डितः, एकादशशतकसमाप्तौ द्वादशशतकप्रारम्भे चेति विल्सनपण्डितः, बालरामायणकर्ता राजशेखरश्चतुर्दशशतक आसीदिति च भट्टमोक्षमूलरनामा वदति.