कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 2, कुल 172 में से
संदर्भ में पढ़ें४
राजशेखरकृतेषु बालरामायणादिषु महेन्द्रपालस्य वर्णनमस्ति. तत्र 'इण्डियन ॲण्टिक्वेरी'नामकमासिकपुस्तकस्य पञ्चदशे भागे ११२ मिते पृष्ठे 'ॐ स्वस्ति श्रीम- होदयसमावासितानेकगो हस्त्यश्वरथपत्तिसंपन्नस्कन्धावारात्--परमभगवतीभक्तो महाराजश्रीभोजदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीचन्द्रभट्टारिकादेव्यामुत्पन्नः परम- भगवतीभक्तो महाराजधीमहेन्द्रपालदेवः श्रावस्तीभुक्तौ श्रावस्तीमण्डलान्तःपातिवा- लयिकाविषयसंबद्धपानीयकग्रामसमुपगतान्सर्वानेव यथास्थाननियुक्तान्रतिवासिनश्च समाज्ञापयति-- संवत्सर १०० ५० ५ माघशुदि १० निबद्धम्' इति महेन्द्रपालस्य दानपत्रं मुद्रितमस्ति. अत्र पृथक्पृथग्लिखितानाम- ङ्कानां संकलने जाता १५५ मिता संख्या. अयमेव श्रीहर्षवर्धनसंवत्सरः, तत्र च ६०६ वर्षेषु योजितेषु जातः ७६१ मितः ख्रिस्तसंवत्सरः. 'अयमेव पूर्वलिखितदान- पत्रसमयः' इति फ्लीटपण्डितः. एतदनुरोधेनैव सुभाषितावल्युपोद्घाते राजशेखर- समयो लिखितः; किं त्वत्र श्रीहर्षवर्धनसंवत्सरादिकल्पनं युक्तिरहितमिति ७६१ मित- ख्रिस्तसंवत्सरे राजशेखरो बभूवेत्यपि संदिग्धमेव. दानपत्रं त्वेतद्राजशेखरवर्णित- महेन्द्रपालस्यैवास्ति, यतोऽस्मिन्दानपत्रे महोदयस्य नाम वर्तते. राजशेखरकृतबाल- भारतप्रस्तावनायां च 'कथमेते महोदयमहानगरलीलावतंसा विद्वांसः सामाजिकाः' इत्याद्यस्ति. महोदयमिति कान्यकुब्ज (कनौज)स्य नामान्तरम्, कान्यकुब्जं महो- दयम्, 'कन्याकुब्जं गाधिपुरं कौशं कुशस्थलं च तत्' इति हैमनाममालायाम्, 'महोदयः कान्यकुब्जे' इति विश्वप्रकाशमेदिनीकोषयोश्च वर्तते. बालरामायणे दश- मेऽङ्केऽपि 'लक्ष्मणः--इदं पुनस्ततोऽपि मन्दाकिनीपरिक्षिप्तं महोदयं नाम नगरं दृश्यते । रामः--शश्वत्सुधामवसुधामहितं द्विषद्भिर्नो गाहितं भवति गाधिपुरं पुर- स्तात् । वैदेहि देहि शफरीसदृशं दृशं तदस्मिन्नितम्बिनि नितम्बवदुत्सुसिन्धौ ॥ ८८ ॥ इदं द्वयं सर्वमदापवित्रं परस्परालंकरणैकहेतु । पुरं च हे जानकि, कान्यकुब्जं सरिश्च गौरीपतिमौलिमाला ॥ ८९ ॥' इत्याद्यस्ति. एतेन राजशेखरकविः कान्य- कुब्जमहीपतेर्महेन्द्रपालस्य सभायामासीदिति ज्ञायते. बाणभट्ट-भवभूति-वाक्पति- राज-श्रीहर्षादयोऽन्येऽपि बहवो महाकवयः कान्यकुब्जनरपतीनां हर्षवर्धनयशो- धर्मप्रभृतीनां सभासु स्वस्वसमय आसन्. राजशेखरो दशमे शतके बभूवेति भाण्डारकरपण्डितः, एवमेव वेबरपण्डितः, एकादशशतकसमाप्तौ द्वादशशतकप्रारम्भे चेति विल्सनपण्डितः, बालरामायणकर्ता राजशेखरश्चतुर्दशशतक आसीदिति च भट्टमोक्षमूलरनामा वदति.