कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 3, कुल 172 में से
संदर्भ में पढ़ें―― राजशेखरस्य कालनिर्णयः ―― वस्तुतस्तु राजशेखरकवि ८८४ मिताख्रिस्तसंवत्सरादनन्तरम् ९५९ संवत्स- रात्पूर्वं मध्ये वर्तमानेषु ७५ वर्षेषु बभूव यत ८८४ मितसंवत्सरपर्यन्तं कश्मी- राज्ञाऽवन्तिवर्मणा समकालीनयोरानन्दवर्धनरत्नाकरयो राजशेखरकृतौ स्तुति- श्लोकौ सूक्तिमुक्तावलि-सुभाषितहारावल्योर्विशेषकविप्रशंसाप्रकरणे लभ्येते 'तत्कर्ता कश्चिदन्यो राजशेखर' इत्यपि न वक्तु युक्तम् यतो बालरामायणवर्णितनामकल- जलद तरल-सुरानन्दकवीनां राजशेखरपूर्वपुरुषाणा नातिप्रसिद्धानामपि देशकुलनाम- ग्रहणपूर्वकं वर्णनश्लोकास्तत्रैव विद्यन्ते, तन्मध्य एव रत्नाकरानन्दवर्धनयोरपि वर्णन- मस्ति तेन सर्वेषां श्लोकानां कर्ता एक एव राजशेखर , अथ च ८८१ मिते शके ९५९ मिते वा ख्रिस्ताब्दे जैनसोमदेवेन यशस्तिलकचम्पू प्रणीता तत्र तृतीय आश्वासे माघादिकविनामसु राजशेखरस्यापि नाम वर्तते तस्मात्तत्कालप्राचीनो राजशेखर , न च प्रबन्धकोषकर्तुर्जेनराजशेखरसूरेस्तत्र नामास्तीति वक्तव्यम् प्रबन्धकोषस्य १३४७ मिते संवत्सरे निर्माणाह्राजशेखरसूरेर्यशस्तिलककर्तुरर्वाचीनत्वात्, ―― राजशेखरस्य वंशदेशादिपरिचय ―― राजशेखरो ब्राह्मण क्षत्रियो वाऽऽसीदिति सन्दिग्धमेव यतो बालरामायणादिषु 'उपाध्याय' 'गुरु' इत्यादिपदैरात्मानं विशिनष्टि, तेन तस्य ब्राह्मणत्वं स्फुटं प्रतीयते, क्षत्रियस्याप्यापनादिवन्त्वधिकारात. राजा शेखरो राजशेखर इति तु समासो नोचित राजा चन्द्र शेखरो यस्य स इत्युचित समास यत कर्पूरमञ्- रीप्रस्तावनायाम् 'रजनीवल्लभशिखण्ड' इति राजशेखरनाम्न पर्यायशब्दो वर्तते रजनीवल्लभश्चन्द्र शिखण्ड शेखरो यस्य इति तदर्थ, अथ च कर्पूरमञ्जरीप्रस्ताव- नायामेव 'चाहमानकुलमौलिमालिका राजशेखररुची गृहिणी' इत्यायस्ति चाह- मानकुलं 'चौहान' इति प्रसिद्ध क्षत्रियकुलम् यस्मि हम्मीरपृथ्वीराजादय क्षिति- पाला अभूवन्, तत्कुलप्रसूता च कथमस्मिंयुगे ब्राह्मणस्य भार्या भवितुमर्हति ? तस्माद्राजशेखर क्षत्रिय आसीदिति कथमपि नातीवानुचितं भाति राजशेखरो महाराष्ट्रदेशोत्पन्नश्चेदिदेशोत्पन्नो वेत्यत्रापि सन्देह एव यतो बाल- रामायणप्रस्तावनायां स्वप्रपितामहम् अकलजलदं महाराष्ट्रचूडामणि वदति सूक्तिमु- क्तावल्यादिस्थकविवर्णनश्लोकेषु स्वसूर्यपुरुषं सुरानन्दं चेदिमण्डलमण्डनं च वदति भाति चायं चेदिदेशोद्भव, चेदिदेशमहीपतीनां करचूलीनामेव विद्धशालभञ्जिकादिषु