कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 10, कुल 172 में से
संदर्भ में पढ़ेंमायूराजसमो जज्ञे नान्यः करचुलिः कविः । उदन्वतः समुत्तस्थुः कति वा तुहिनांशवः ॥ ( सूक्तिमुक्तावलिः, सुभाषितहारावलिः. ) हैहयवंशोद्भवाः करचुलि ( कलचुरि ) नामानः केचन क्षत्रिया अद्यापि 'रीमां' ( रेवां )। राज्ये वर्तन्ते. राजशेखरसमये चेदिदेशान्तर्गता माहिष्मती नाम नगरी तेषां राजधानीत्यासीत्, 'यन्मेखला भवति मेकलशैलकन्या वीतेन्धनो वसति यत्र च चित्रभानुः । तामेष पाशितकृतवीर्ययशोवतंसां माहिष्मतीं कलचुरेः कुलराजधानीम् ॥' इति बालरामायणम् ( ३।३५ ) मेकलसुता नर्मदा. सा च माहिष्मती इन्दोरनगरा- द्दक्षिणदिशि पञ्चदशयोजनान्तरे नर्मदादक्षिणतटेऽधुना 'महेश्वर' इति नाम्ना प्रसिद्धा इन्दोरनृपतेरेवाधीना वर्तते. चेदिदेश एव नर्मदोपकण्ठे त्रिपुरीनाम द्वितीयापि कलचुरिराजधान्यासीत्. 'सीतास्वयंवरनिदानधनुर्धरेण दग्धास्तुरङ्गितरतो विभुना भवेन । खण्डं निपत्य भुवि या नगरी बभूव तामेष चैद्यतिलकस्त्रिपुरीं प्रशास्ति ॥' इत्यपि बालरामायणम् ( ३।३८ ) 'त्रिपुरी चेदिनगरी' इति हैमनाममाला ( ४।४१ ) राजशेखरकृतविद्धशालभञ्जिकायाश्चनायकः करचुलिकुलोत्पन्नोऽस्यामेव त्रिपुर्यामा- सीत्. 'करचुलितिलको वर्तते चक्रवर्ती' इति, 'स्वस्तिश्रीमत्त्रिपुर्यां तुहिनकरसुतावी- चियाचालितायाम्' इति च विद्धशालभञ्जिकाचतुर्थेऽङ्के वर्तते, तुहिनकरसुता सोमोद्भवा नर्मदा. सा च त्रिपुरी इदानीं 'तेवुर' इति नाम्ना प्रसिद्धा जबलपुरसमीपे वर्तते इति दक्षिणदेशेतिहासपुस्तके ( ३७ पृष्ठे ) पण्डितवरभाण्डारकरः करचुलि- वंशोद्भवोऽयं मायूराजोपिचेदिदेश एवोत्पन्नः स्यात्. 'गण्डूषान्तेपिताम्बुप्रविकट- गलधटोरत्खजातास्मितानी हेलाकृष्टार्धचन्द्राभिभवबृहत्तमहाकुण्डलाभोगभाजम् । पीनोरःस्थापितार्ताद्विरदमदगधीमासरस्था रुकानां दूरं यातस्य यस्य स्मरति दश- शिरास्त्वग्विषूत्पीडितानाम् ॥' इत्याद्याः केचन श्लोका मायूराजनाम्ना समुद्धृताः सूक्तिमुक्तावल्यादिषु प्राप्यन्ते. तद्विलोचनेन च मायूराजः कस्यचिद्रामायणस्यानु- कूलनाटकस्य कर्तासीदिति ज्ञायते. ( वक्रोक्त्या मेण्ठराजस्य वहन्त्या सृणिरूपताम् । आविद्धा इव धुन्वन्ति मूर्धानं कविकुञ्जराः ॥ ) मेण्ठो हस्तिपकः ; (पक्षे) राजशेखरेण बालभारत-बालरामायणप्रस्तावनायां गृही- तनामा कश्मीरदेशोद्भवो हयग्रीववधकाव्यकर्ता विक्रमार्कसमकालीनो भर्तृमेण्ठः