कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 11, कुल 172 में से
संदर्भ में पढ़ें१४ कवि अय श्लोकः सूक्तिमुक्तावलि-सुभाषितहारावल्यो राजशेखरश्लोकबहिर्भूत- स्तत्समीप एव तिष्ठति भाति चायमपि राजशेखरस्यैवेत्यतोऽत्र गृहीतः । मा स्म सन्तु हि चत्वारः प्रायो रत्नाकरा इमे । इतीव स कृतो धात्रा कविरत्नाकरोऽपरः ॥ ( सूक्तिमुक्तावलि , सुभाषितहारावलि . ) हरविजयकाव्यकर्ता नवमशतकोत्तरभागे कश्मीरदेशे समुत्पन्नो रत्नाकरमहा- -कवि प्रसिद्ध एव. तौ शूद्रककथाकारौ रम्यौ रामिलसौमिलौ । काव्यं ययोर्द्वयोरासीदर्धनारीश्वरोपमम् ॥ ( सुभाषितहारावलि . ) सौमिलस्य नाम मालविकाग्निमित्रप्रस्तावनायां वर्तते, तेन कालिदासात्सौमिल- स्तस्मादपि शूद्रक प्राचीन 'सभ्याये कुशता' इत्यादिश्लोक शार्ङ्गधरपद्धतौ रामिलसौमिलयोर्नाम्ना समुद्धृतः , 'वरपुरुषादिव सवितु' इत्यादिरमिलश्लोक सुभाषितावलावप्यस्ति. यथार्थता कथं नाम्नि मा भूद्वररुचेरिह । व्यधत्त कण्ठाभरणं यः सदा रोहणप्रियः ॥ ( सूक्तिमुक्तावलि . ) कात्यायनापरनामा वररुचि प्रसिद्ध एव सद्वृत्तो व्याकरणवार्तिकपाठ प्राकृत- सूत्राणि च सर्वत्र सुलभान्येव. सुभाषितावल्यादिषु बहवो वररुचिना. श्लोकाः समुपलभ्यन्ते, तस्मात्किमपि काव्यमपि वररुचिना कृतमेव. के चैकटनितम्बेन गिरां गुम्फेन रञ्जिताः । निन्दन्ति निजकान्तानां न मौग्ध्यमधुरं वचः ॥ ( सूक्तिमुक्तावलि , सुभाषितहारावलि )