भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 12, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 12

१५ स्थिता माध्वीकपाकत्वान्निसर्गमधुरापि हि । किमपि स्वदते वाणी केषांचिदपि शांकरी ॥ ( सूक्तिमुक्तावलि..) अत्र बालरामायणप्रस्तावनायां गृहीतनामा स्वसमकालीन. कृष्णशंकरवर्मा राज- शेखरस्य विवक्षित , न तु शंकराचार्य. कश्चिदन्यो वा शङ्कर इति भाति. शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते । शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ ( सूक्तिमुक्तावलि , शार्ङ्गधरपद्धति .) पृथिव्यां प्रथिता गाथा सातवाहनभूभुजा । व्यधुर्वृत्तेस्तु विस्तारमहो चित्रपरम्परा ॥ ( सूक्तिमुक्तावलिः.) पार्थस्य मनसि स्थानं लेभे खलु सुभद्रया । कवीना च वचोवृत्तिचातुर्येण सुभद्रया ॥ ( सूक्तिमुक्तावलि , सुभाषितहारावलिः. ) 'दुग्धं न यादनु' इत्यादिश्लोक सुभद्राकृत सुभाषितावलौ वर्तते. नदीना मेकलसुता नृपाणां रणविग्रहः । कवीना च सुरानन्दश्चेदिमण्डलमण्डनम् ॥ ( सूक्तिमुक्तावलि . ) मेकलसुता नर्मदा सुरानन्दो राजशेखरस्य पूर्वपुरुष इत्यकाउलजलदघनेनश्लो- कटिप्पणमुद्धृते बालरामायणप्रस्तावनापद्ये द्रष्टव्यम् चेदिदेशो डाहलापरपर्याय . 'त्रैपुरास्तु डाहला' स्युश्चैद्यास्ते चेदयश्च ते' इति हेमनाममाला ( ४।२१ ) 'डाह- लाश्चेद्यचैद्या.' इति त्रिकाण्डशेषे भूमिवर्ग 'नीत्वा गङ्गाधरधरतां डाहलाधीश- लक्ष्मि' इति विक्रमाङ्कदेवचरितम् ( १८।९५ )