भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 13, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 13

१६ भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कवि- र्माघो भारविकालिदासतरलाः स्कन्धः सुबन्धुश्च यः । दण्डी बाणदिवाकरा गणपतिः कान्तश्च रत्नाकरः सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेऽप्यमी ॥ (शार्ङ्गधरपद्धतिः) एषु कविषु साहसाङ्क-स्कन्धयोर्विषये न किमपि ज्ञायते. कान्त इति तु रत्ना- करविशेषणम्. --- अत्रायं निष्कर्षः --- अस्य संपूर्णलेखस्य निष्कर्षस्त्वयम्—यन्महाराष्ट्रचेदिदेशयोरन्यतरोद्भवः कान्य- कुब्ज महीपालस्य महेन्द्रपालस्याश्रितो ब्राह्मण क्षत्रियो वा राजशेखरकविः ८८४ ख्रिस्तसंवत्सरादनन्तरं ९५९ संवत्सरात्पूर्वं चासीत्. राजशेखरस्य विस्तरेण वर्णने तु पुण्यपत्तनस्थार्यभूषणमुद्रणशालये मुद्रितायां फर्गुसनपाठशालाध्यक्षेण एम्. ए. पदवी- मण्डितेन शिवरामसूनुवामनपण्डितेन प्रणीतायाम् 'राजशेखर' हिज् लाइफ ऐण्ड रायटिंग्स्' इति नामाङ्कितायां पुस्तिकायां द्रष्टव्यम्. इत्यलं बहुभिः पिष्टस्य मुहुः पेषणेन.