कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 14, कुल 172 में से
संदर्भ में पढ़ेंमहाकविश्रीराजशेखरकृता कर्पूरमञ्जरी वासुदेवकृतया टीकया समेता —प्रथमं जवनिकान्तरम्— भद्दं होउ सरस्सईअ कइणो णंदंतु वासाइणो अण्णाणं पि परं पवट्टउ वरा वाणी छइल्लप्पिआ। वच्छोमी तह मागही फुरदु णो सा किं च पंचालिआ रीईओ विलिहंतु कव्वकुसला जोण्हं चकोरा विअ ॥ १ ॥ दशास्योद्यद्दाल्यच्छिद्रं जानकीशं कुलोपास्यमानम्य साष्टाङ्गपातम् । गणेशं च गण्डोड्डसद्भृङ्गसङ्गं हरोत्तुङ्गसङ्गाच्च गङ्गास्तरङ्गान् ॥ तातं प्रभाकरं नत्वा मातरं गोमतीमपि । कर्पूरमञ्जरीटीका वासुदेवेन तन्यते ॥ कर्पूरमञ्जर्याख्यसट्टकारम्भे सूत्रधार आशीरूपा नान्दीं पठति— भद्दमिति । भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः अन्येषामपि परं प्रवर्ततां वरा वाणी विदग्धप्रिया । वैदर्भी तथा मागधी स्फुरतु नः सा किं च पाञ्चालिका रीतिका विलिहन्तु काव्यकुशला ज्योत्स्नां चकोरा इव ॥ अत्र च 'व्यासादय' इत्यादौ 'सरस्वत्या' इत्येतत्प्रभृति षष्ठ्यन्तत्वोपक्रमभङ्गा- भासेऽपि 'भवतु' इत्यादिप्रधानक्रियापदानां लोडन्तत्वप्रक्रमः सर्वत्राविहत इति न प्रक्रमभङ्गः शङ्क्यः । तेन रीतीनां शब्दगुण । यथोक्तं सरस्वतीकण्ठाभरणे (१।७६)—'उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते' इति । सरस्वत्याः सततं १ अत्र 'साट्टअ' इति पाठः क्वचित् ; तल्लक्षणं चोक्तं साहित्यदर्पणे (६।२७६) 'सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकम् । न च विष्कम्भकोऽप्यत्र प्रचुरश्चाद्भुतो रसः । अङ्का जवनिकाख्याः स्याद्व्यङ्ग्यादिसमन्वयम् ।' इति । विशेषस्तु भावप्रकाशे द्रष्टव्यः । १