कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 15, कुल 172 में से
संदर्भ में पढ़ें२ कर्पूरमञ्जरी भद्रभाजनत्वादप्राप्तप्रार्थनारूपाशीरसंभवो यद्यपि, तथापि स्वसंबन्धिन्या वा तस्या मङ्गलाशंसनं संभवत्येव । अत एवान्येषामपीत्यत्र आशंसनम् । ‘भवेत्तल्लिङ्गवचनं यल्लिङ्गवचनोपमम्’ इत्युक्तत्वाज्ज्योरक्षामित्युपमाने भिन्नवचनतादोषो न शङ्क्यः । ‘यल्लिङ्गमलिङ्गमित्युक्तं तल्लिङ्गवचनं भवेत् । उपमादूषणं तन्न यत्रोद्वेगो न धीम- ताम् ॥’ इति वृद्धेः, ‘न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूष- नायालं यत्रोद्वेगो न धीमताम् ॥’ (का. २।५१) इति दण्डिना चोक्तत्वात्, अत्र चाल्पीयस्या अपि ज्योत्स्नाया अतितृप्तिजनकत्वेन लोकोत्तरत्वस्य ‘पदैक- देशरचनावर्णेष्वपि रसादयः’ (४।४३) इति काव्यप्रकाशकृदुक्तेरैशवचनेन व्यञ्जनादुद्वेगाभावो वेदितव्यः। विदग्धप्रियेति विविधगुणालंकारगुम्फितत्वं व्यङ्ग्यम्। रीतीनां प्रतिनामग्रहणेन तिस्रोऽप्यत्र ताः सन्तीति ध्वनितम् । तदिदं वस्तुना वस्तु व्यज्यते । ‘काव्यकुशला’ इति तादृशानामेव सम्बन्ध्यमत्र सूचितम् । तल्लक्षणं भरते—‘सभ्यास्तु विबुधैर्ज्ञेया ये द्विषड्लान्विता जनाः । मध्यस्थाः सावधानाश्च वाग्मिनो न्यायवेदिनः ॥ त्रुटितात्रुटिताभिज्ञा विनयानम्रकंधराः । अगर्वा रससारशालीर्यश्रितयकोविदाः ॥ असाद्वदनिषेद्धारश्चतुरा मत्सरच्छिदः । अमन्दरसानिष्यन्दिहृदया भूषणोज्ज्वलाः ॥ सुवेषा भोगिनो नानाभावोपचारविशा- रदाः । स्वस्वोचितस्थाननिष्ठाश्चाप्रधर्षसापगत्यणाः ॥’ इति । चकोरोपमानेन विधे- चानकर्तृत्वप्रार्थना व्यङ्ग्या । सोऽयमलंकारेण वस्तुध्वनिः । विदग्धप्रियेति षष्ठी- तत्पुरुषो वृत्त्या वाण्या विशेषणम् । यद्वा,—वैदर्भ्यादीनाम् । अस्मिन्पक्षे कर्मधारय- माश्रित्य वैदर्भ्यादीनां कामिनीरूपत्वं व्यङ्ग्यम् । सोऽयं वस्तुनालंकारध्वनिः । वैद- र्भ्याद्या रीतयः शब्दालंकाराः । तल्लक्षणं कण्ठाभरणे (२।२९)—‘तत्रा- समासा निःशेषसमप्रगुणगुम्फिता । विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥ पूर्वैरीतैर्निर्वाहे गण्डरीतिस्तु मागधी । अनल्पस्पष्टपदामोजःकान्तिविवर्जिताम् । मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ॥’ इति । रीतिसामान्यलक्षणं च तत्रैव—‘वैदर्भ्यादिरिहाः पन्थाः काव्ये मार्ग इति स्मृतः । रीङ् गतौविधातोः सा व्युत्पत्त्या रीतिरिष्यते ॥ (स. क. २।२७) इति। गौड़ी लाटीनामेकैकगुणव्यति- रेकेणैवोपादानम् । चकोरा ईवेत्युपमालंकारः सा यथ—‘साधर्म्यमुपमा भेदे’ (१०।८७) इति काव्यप्रकाशे । वामनेनाप्युक्तम्—(वा. सू. ४।२।४२) ‘उपमानोपमेययोर्गुणलेशेनः साम्यमुपमा’ इति । दण्डिनाप्युक्तम् (का. २।१४)— ‘यथाकथञ्चित्सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सा तस्याः प्रपञ्चोऽयं