भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 119, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 119

चतुर्थं जवनिकान्तरम् ११३ णावेमि । ( उपसृत्य । ) जयदु जयदु भट्ठा । देवी विष्णवेदि जहा सायंसमए तुम्हे परिणाइदव्व त्ति । विदूषकः—भोदि ! किं एदं अकंडकुम्हंडपडणं ? राजा—सारंगिए ! सव्वं वित्थरेण कहेसु । सारङ्गिका—एदं विष्णवीअदि,—अणंतरादिक्कंतचउद्दसीदिवसे देवीए पोम्मराअमाणिक्कमअं गोरिं कट्टुण भइरवाणंदेण पडिट्ठाविदा । सअं च दिक्खा गहिदा । तदा ताए विण्णत्तो जोईसरो गुरुदक्खिणा- णिमित्तं । भणिदं च तेण—जदि अवस्सं गुरुदक्खिणा दाअव्व ता एसा दीअदु महाराअस्स । तदो देवीए विण्णत्तं जं आदिसदि भअवं तं काअव्वं । पुणो वि उल्लविदं तेण । अत्थि एत्थ लाडदेसम्मि चंडसेणो णाम राआ । तस्स दुहिदा घणसारमंजरि त्ति । सा देवण्णएहिं आदिट्ठात्ति—एसा चक्क- वट्टिघरिणी भविस्सदि त्ति । तदो सा महाराएण परिणेदव्वा जेण गुरु- गत्वा देवीविज्ञापितं विज्ञापयामि । जयतु जयतु भर्ता । देवी विज्ञापयति यथा संध्यासमये यूयं मया परिणेतव्या इति । विदूषकः— भवति ! किमेतदकालकूष्माण्डपतनम् ? राजा— सारङ्गिके ! सर्वं विस्तरेण कथय । सारङ्गिका— इदं विज्ञाप्यते,—अनन्तरातिक्रान्तचतुर्दशीदिवसे देव्या पद्मरागमणिमयीं गौरीं कृत्वा भैरवानन्देन प्रतिष्ठापिता । स्वयं च दीक्षा गृहीता । ततस्तया विज्ञप्तो योगीश्वरो गुरुदक्षिणानििमत्तम् । भणितं च तेन यद्यवश्यं गुरुदक्षिणा दातव्या तदेषा दीयतां महाराजाय । ततो देव्या विज्ञप्तं यदादिशति भगवान् [तत्कर्तव्यम्] । पुनरप्यु- ल्लपितं तेन । अस्त्यत्र लाटदेशे चण्डसेनो नाम राजा । तस्य दुहिता घनसारमञ्जरी इति । सा दैवज्ञैरादिष्टा एषा चक्रवर्तिगृहिणी भविष्यतीति । ततो महाराजेन 1 'जूयं मए' इति टीकासंमतः पाठः । 2 'अकाण्डोर्वारुक' इति टीकानु- सारी पाठः । 3 'भअवणिं' इति टीकापाठः । क० म० ८