कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 120, कुल 172 में से
संदर्भ में पढ़ें११४ कर्पूरमञ्जरी दक्खिणा दिण्णा भविस्सदि, भट्ठा वि चक्कवट्टी कदो होदि । तदो देवीए विहसिअ भणिदं जं आणवेदि भअवं तं कीरदि । अहं च विण्णविदुं पेसिदा । गुरुस्स गुरुदक्खिणा सा दिण्णा । विदूषकः—(विहस्य ।) तं उवक्खाणं । सीसे सप्पो देसंतरे वेज्जो । इह अज्ज विवाहो, लाडदेसे घणसारमंजरी ! राजा—किं ते भइरवाणंदस्स पैहावो परोक्खो । (तां प्रति ।) कहिं संपदं भइरवाणंदो ! सारङ्गिका—देवीए कारिदे पमदुज्जाणस्स मज्झट्ठिदे वडतरुमूले चामुंडाअदणे भइरवाणंदो देवीए समं आगमिस्सदि । ता अज्ज दक्खिणाविहिदो कोऊहलपरो विवाहो । ता इह ज्जेव देवेण ठादव्वं । (इति परिक्रम्य निष्क्रान्ता ।) राजा—वअस्स ! सव्वं एदं भइरवाणदस्स विअंभिदं त्ति तक्केमि । परिणेतव्या, येन गुरुदक्षिणा दत्ता भविष्यति, भर्तापि चक्रवर्ती कृतो भवति । ततो देव्या विहस्य भणितं यदादिशति भगवान् । अहं च विज्ञापयितुं प्रेषिता गुरोर्गुरु- दक्षिणानिमित्तम् । विदूषकः— एतत्तत्संविधानकं शीर्षे सर्पो देशान्तरे वैद्यः । इहाद्य विवाहो लाटदेशे घनसारमञ्जरी । राजा— किं ते भैरवानन्दस्य प्रभावो न प्रत्यक्षः ? कुत्र साम्प्रतं भैरवानन्दः ? सारङ्गिका— देव्या कारिते प्रमदोद्याने मध्यस्थिते वटतरुमूले चामुण्डायतने भैरवानन्दो देव्या सममागमिष्यति । तदद्य दक्षिणाविहितः कौतूहलपरो विवाहः । तदिहैव देवेन स्थातव्यम् । राजा— वयस्य ! सर्वमेतद्भैरवानन्दस्य विजृम्भितमिति तर्कयामि । १ 'गुरुदक्षिण निमित्तं' इति टीकानुगुणः पाठः । २ 'इदं तं संविधाणअं' इति टीकामितः पाठः । ३ 'पहाओण पत्थक्खो' इति टीकापाठः ।