कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 130, कुल 172 में से
संदर्भ में पढ़ें२ बालभारतम् (पुरोऽवलोक्य च ।) कथमेते महोदयमहानगरलीलावतंसा विद्वांसः सामाजिकाः । तदेवं विज्ञापयामि । (अञ्जलिं बद्ध्वा ।) सा शुक्तिर्मधुपानकेलिचषकं वेणीविभूषामणिः सीतायाः स च कुम्भसंभवमुनेः प्राप्ता च सैकावली । पर्यङ्कः स च विद्रुमद्रुममयस्तद्रामसिंहासनं चित्रं यस्य यशोनिधिर्विजयतां सोऽयं रघोरन्वयः ॥ ६ ॥ तत्र च,― नमितमुरलमौलिः पाकलो मेकलानां रणकलितकलिङ्गः केलितट् केरलेन्दोः । अजनि जितकुलूतः कुन्तलानां कुठारो हठहृतरमठश्रीः श्रीमहीपालदेवः ॥ ७ ॥ तेन च रघुवंशमुक्तामणिना आर्यावर्त्तमहाराजाधिराजेन श्रीनिर्भयनरेन्द्र- नन्दनेनाधिकृताः सभासदः ! सर्वानिप वो गुणाकरः सप्रश्रयं विज्ञा- पयति―विदितमेतत्तु भवताम्, यदुत नाट्याचार्येण रङ्गविद्याधरेण प्रतिज्ञातम्― राजशेखरकवेर्महात्मनो बालभारतमिदं हि नाटकम् । योऽभिनेष्यति रसैर्निरन्तरं मत्सुतां स परिणेष्यति क्षितौ ॥ ८ ॥ (आकाशे ।) तत्रभवन्तः ! कि ब्रूथ―इदं हि तद्बालभारतं यस्य हि प्रचण्डपाण्डवमिति नामान्तरम् ! (अञ्जलिं बद्ध्वा ।) यदादिशन्ति परि- १. महोदयमिति कान्यकुब्ज (कनोज) नगरस्य नामान्तरम् २ मुरल मेकल कलिङ्ग- केरलकुलूत-कुन्तल-रमठाख्या देशविशेषा. ३. पाकलो हस्तिज्वरः 'गा०धारापिगन्ध- भवभूतिः । फल ' इति हर्षचरितम् 'कलभं कठ र इव कूटपाकल 'इति मालतीमाधवे द्विपणा पाकळ एव कूटपाकल'. ४, आदिश्टोऽस्मि―श्रीमहीपालदेवेन, यस्येमां पुराविदः प्रशस्तिगाथामुदाहरन्ति―'यः संक्षुद्य प्रकृतिगहनामायंचाणक्यनीतिं जित्वा नन्दान्कुसुमनगरं चन्द्रगुप्तो जिगाय । कर्णाटत्वं भुजगपशनाव तानेव हन्तु दोर्दण्डौद्य स पुनरभवच्छ्रीमहीपालदेवः ॥' इति चण्डकौशिके आर्यक्षेमीश्वरः स एवायमपि महीपालदेव इति तु न निश्चयः.