कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 131, कुल 172 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ३ पदमेसराः । (किञ्चित्सलज्जम् ।) भवदनुचराः पञ्च भ्रातरो वयम्, पञ्चापि नाम समर्थास्तदभिनये, किं पुनरस्माकं पितृव्यपुत्राः शतं सन्ति भरतपुत्राः । ते च तदभिनेतुमिच्छन्ति, न च-ते शक्नुवन्ति । तन्निमित्तं च महदस्माभिः सह वैरं वर्तते । (आकाशे ।) किं ब्रूथ—एकविष- याभिलाषो हि वैरकन्दं कन्दलयति । भवद्भिः कुलान्तकरं वैरं तेषाम् । यतो दुर्बुद्धयस्ते सुबुद्धयो भवन्तः । उक्तं हि तेनैव महासुमन्त्रिपुत्रेण,— श्रियः प्रसूते विपदो रुणद्धि यशांसि दुग्धे मलिनं प्रमार्ष्टि । संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः ॥ ९ ॥ (अञ्जलिं बद्ध्वा ।) सुगृहीतमार्यवचनम् । बद्धो वाससो ग्रन्थिः । यदिस्थ- मामनन्ति,— अनूचानो हि यद्ब्रूते सा स्वयंभूः सरस्वती । तदार्षे न मृषार्थं स्यात्सा दृष्टिर्विदुषां दृढा ॥ १० ॥ अपि च,— आपन्नार्त्तिहरः पराक्रमधनः सौजन्यवारंनिधि- स्त्यागी सत्यसुधाप्रवाहशशभृत्कान्तः कवीनां मतः । वर्ण्यः स्या गुणरत्नरोहणगिरेः किं तस्य साक्षादसौ देवो यस्य महेन्द्रपालनृपतिः शिष्यो रघुग्रामणीः ॥ ११ ॥ तत्रैवंविधो दैवज्ञानां प्रवादः,— बभूव वल्मीकभवः पुरा कविस्ततः प्रपेदे भुवि भर्तृमेण्ठताम् । स्थितः पुनर्यो भवभूतिरेथया स वर्तते संप्रति राजशेखरः ॥ १२ ॥ (आकाशे ।) किं ब्रूथ—तत्प्रस्तूयतामिति ? यदादिशन्ति गुरवः । (नेपथ्ये गीयते ।) हरचूडामणिरेन्दुर्निजगद्दीपश्च दिनकरो देवः । मासान्तसंगताविह लोकस्य दिनाय वर्तते ॥ १३ ॥